________________
अहिपपद्मावती ताण्डवं तन्वतीतीन ते किं मनो हरति नैव रोचते तन्न किं मोदसे तेन नो वेति तर्कोऽस्ति नीरागोऽसि........१५
(गेयराग) निर्विद्यागुरुविद्वते गुणवते निर्ग्रन्थता राजते
ध्येयानां महते सुखं विदधते सौभाग्यतः स्फूर्जते । शुक्लध्यानवते शमं च वहते योगस्य निद्रावते निद्रायां स्फुरते च योगिमनसो मे ते नमोर्हन् सते ॥ १६ ॥
(काव्यं)
पद्मावती ते तव मनो हृदयं न प्रापयति, किं कुर्वती पद्मावती ? इति यत्ताण्डवं नाटकं करोति तत्ताण्डवं वा किं न रोचते तेन हेतुना किं न मोदसे इति मे मम विचारणा विद्यते इति सम्बन्धः । इति तथा काऽपि रचितकटिकिङ्किणी, खचिततनुकञ्चका, तिलकमुखशोभिनी तूरं वाति। तथा काऽपि हारकेयूरभूषणा, स्तनितचरणनूपुरा सशब्दपदनूपुरा सती वीणां वातीति गम्यम् । इति अमुना प्रकारेण ताण्डवं कुर्वती पद्मावती ते तव मनः किं न हरति ? किं वा तन्न रोचते ? तेन त्वं न मोदसे इति तर्को विचारणाऽस्ति, आ ! ज्ञातम् ! स्मृतं, आ ईषत् स्मरणे, त्वं नीरागोऽसि तेन मोदादिकं न ॥ इति घटितयुग्मम् ॥ १५ ॥ निर्विद्यागुरुविद्वते.। हे अर्हन् ? मम मते तुभ्यं नमोऽस्तु । किंवि. शिष्टाय तुभ्यम् ? निर्विद्यागुरुविद्वते गुरुं विना विद्वते पण्डिताय । पुनः किं ? गुणवते सर्वगुणयुताय । पुनः किं.? निप्रेन्यतया राजते विराजमानाय । पुनः किं ? ध्येयानां मध्ये ध्येयाहीणां पदार्थानां मध्ये महते श्रेष्ठाय । किं कुर्वते तुभ्यम् ? विदधते कुर्वते । किम् ? सुखम् । पुनः किं० ? योगस्य निद्रावते योगमध्ये निद्रावते । लयं प्राप्ताय । पुनः किं ? स्फूर्जते शोभमानाय । कुतः ? केन? सौभाग्यतः सर्वजनवल्लभत्वेन । किं.? शुक्लध्यानवते निर्मलध्यानवते । च पुनः किं वहते? वहमानाय? किं? शमम् परमं वैराग्यं । पुनः किं.? स्फुरते स्पन्दमानाय । क ? निद्रायाम् । कस्य कोऽपि मनसः योगीन्द्रस्य । पुनः किं.? सते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org