________________
सुरनरसुखसम्पदामगारं
विपुलमतियतिरमोरुकण्ठहारम् । कमठहठकुकाष्टताकुठारं स्मर पुरुषोत्तममङ्गनाविकारम् ॥ १३ ॥
(कुसुमलता) हेमकुचकुम्भिनी विविधसुरमानिनी कुसुमवरदामिनी वदति गीतं भुवनपतिकामिनी मरुजवरवादिनी नागसीमन्तिनी वहति तालम् । चन्द्रमण्डलमुखी हंसगतिगामिनी कापि लीलावती धरति तन्ति कलितकटिमेखला श्रवणवरकुण्डला नक्रमुक्ताफला सृजति नृत्यं १४ रचितकटिकिङ्किणी खचिततनुकञ्चका तिलकमुखशोभिनी वाति तूरं हारकेयूरका स्तनितपदनूपुरा ललितसुललन्तिका काऽपि वीणां इव यथा शफरी मत्स्यी लहरीरूपां नगरी सेवते इत्यर्थः ॥ १२ ॥ सुरनरसु०, हे प्राणिन् पुरुषोत्तमं जिनं स्मर, किं ? अगारं गृहं, कासाम् ? सुरनरसुखसंपदाम् देवमनुष्यसुखश्रियाम् । विपुलमतिनिर्ग्रन्थानां रमा लक्ष्मीस्तस्याः कण्ठे उरु विशालं हारमिव । कमठतापस्तस्य हठ एव कुकाष्ठत्वं तत्र कुठार इव ! पुनः किं. ! अङ्गनायामविकारो विकाररहितस्तम् ॥ १३ ॥ कथम् ? ताण्डवं कुर्वती तद्दर्शयति, हेमकुचकुम्भिनी हेमवर्णौ यो कुचौ पयोधरौ हेमवर्णी हेमवर्णी कुचकुम्भौ यस्याः सा हेमकुचकुम्भिनी एवंविधा विविधा सुरमानिनी । तथा कुसुमवरदाम विद्यते यस्याः सा कुसुमवरदामिनी गीतं वदति गीतं गायति । तथा भुवनपतिकामिनी किंविशिष्टा ? मरुजानि मर्दलानि वरं यथा स्यात् तथा वादयतीति मरुजवरवादिनी । तथा नागसीमन्तिनी तालं वहति प्रापयति । तथा कापि सुरी धृतकटिमेखलासती, तथा काऽपि श्रवणवरकुण्डला कर्णप्रधानकुण्डला, नक्रमुक्ताफला सती तन्ति धरति । तथा काऽपि चन्द्रमुखी चन्द्रवदना हंसगतिगामिनी लीलायुता नृत्यं नर्तकं सृजति करोति ॥१४॥ हे इन ! खामिन् ! मे मम तर्को विचारणाऽस्मिन् विद्यते इति, कथम् ? अहिपपद्मावती. नागेन्द्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org