SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रशमरसतरङ्गनेत्रतारं भजत भजत भवाब्धिमग्नलोक ! तारम् ॥ १० ॥ (कुसुमलता) वत्री स्वर्गिषु मानवेषु च यथा चक्री च तेजस्विनां __मार्तण्डः कनकाचलो गिरिषु वा वृक्षेषु कल्पद्रुमः । गङ्गा सर्वनदीषु वा हिमरुचिस्तारासु मुख्यस्तव सद्ध्यानेषु तव स्वरूपसुलयो नेतो मया ध्यायते॥११॥ (काव्यं ) सदरी बदरी चमरी भ्रमरी शबरीखचरीविनरी - सुसुरीतिपुरी मधुरीकृतगीतगुणम् । अमरीकबरीचमरीकृतवीरममीरगतं शफरीलहरीनगरीमिव शीलय जीव ! जिनम् ॥ १२ ॥ (आलिङ्गनकम् ) मनोज्ञस्तम् । पुनः किं० ? भवसमुद्रमग्नलोकतारम् ॥ १० ॥ हे नेतः ! श्रीवामेय ! तव खरूपसुलयस्तथा मया सद्ध्यानेषु प्रकृष्टो ध्यायते, तथा कथम् ? यथा खर्गिषु देवेषु वज्री इन्द्रः प्रकृष्टो मुख्यः, यथा मानवेषु चक्री सार्वभौमस्तथा तेजस्विनां तेजोवतां सूर्यः, यथा गिरिषु पर्वतेषु कनकाचलो मेरुः, तथा, यथा वृक्षेषु कल्पद्रुमः, तथा, यथा सर्वनदीषु गङ्गा, यथा तारासु हिमरुचिश्चंद्रः प्रकृतः तथा तव खरूपसुलयो ध्यायते ॥ ११ ॥ सदरी बदरी०, हे जीव ! जिनं श्रीपा. श्वनाथं शीलय सेवख । किं वि० ? दरी गुहा, बदरी वृक्षविशेषः, चमरी धेनुः, भ्रमरी मधुकरी, शबरी मिल्लपत्नी, खचरी, एषां द्वन्द्वः एताभिः सह यद्धतं तत् सदरी बदरी चमरीत्यादि ! यावत् वनं रीत्या नीत्या युता या पुरी नगरी राति पुरी सदरीत्यादि, वरनं चरीति पुरीति च द्वन्द्वः, तत्र मधुरीकृता गीतगुणा यस्य सं तम् । पुनः किं ? अमर्यो देव्यः तासां कबर्यः लेशरचनाविशेषाः त एव चमर्यः कृष्णचामराणि तैः सह कृतानि मिलितानि चीराणि पट्टकूलानि तेषां समीरो वायुस्तत्र गतः प्राप्तः स तम् । एवंविधं जिनं शीलय सेवख, कं कामिव ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy