________________
६०
अरिहरिहरिकरिसमरसमदरगहनदहनगतं जिन ! तव गुणसुमणिगण नम परेशमिह तनुते ॥८॥
(संगतकं) भन्दकन्द कन्द ! नन्दपुण्यकुन्दवृन्दचन्द्र ! वन्दबलह !.
दुःकृतान्त ! विःकृतान्त ! सुकृतान्त ! विप्रशांतजनन । वांतसर्वधातुजातविश्वजन्तुघातपात ! जिनयशान्तदान्त ! सिद्धिकान्त ! पूतनीलदेहकान्त ! भूवितांतसुकृतशांतिदस्त्वं ९
(नाराचकं) जिनमखिलगुणाकरावतारं
दलितसमस्तमदेन्द्रियार्थवारम् ।
हस्ती, समरः संग्रामः एषां द्वन्द्वः तेषां समस्तो दरो भयं स एव गहनं वनं तत्र दहनगतिरिव वह्निगतिरिव तम् ॥८॥भंदकंद०, हे भंदकन्दकन्द ! भन्दानि भद्राणि तान्येव कन्दा मूलानि तत्र कन्द इव, कं ददातीति कन्दो मेघः। पुण्यान्येव कुन्दानि पुण्यकुन्दानि, तेषां वृन्दः समूहस्तत्र चन्द्र इव तस्य स० । तथा हे मन्दबलह ! मन्दः शनैश्चरो ग्रहविशेषस्तस्य बलं पीडां हतीति मन्दबलहः तस्य संबोधनम् । तथा हे दुःकृतान्त ! दुःकृतं पापं तस्याऽन्तोऽवसानं यस्माद् येन वा तस्य संबोधनं ! हे निःकृतान्त ! निर्गतः कृतान्तो यमो यस्मात् तस्य सं० । हे सुकृतान्त । सु शोभनः कृतान्तः सिद्धान्तो यस्य तस्य सं० । तथा हे विप्रशान्त जनन ! प्रशान्तानि जननानि उत्पत्तयो यस्य तस्य सम्बो। हे वान्तसर्वधातुजातविश्वजन्तुघातपात ! सर्वधातूनां कनकादीनां जातः समूहः तथा विश्वे च ते जन्तुघातपातः, वान्तः सर्वधातुजातो विश्वजन्तुघातपातो येन तस्य सं० । तथा हे शान्तदान्त ! तथा सिद्धिकान्त ! मुक्तिवर ! तथा हे पूतनीलदेहकान्त ! पवित्रनीलवर्णतनुकमनीय ! त्वं नंद चिरं जय । किंविशिष्टस्त्वम् ? भूनितान्तसुकृतशान्तिद भुवि मेदिन्यां नितान्तं निरन्तरं सुकृतं शांतिं च ददातीति सः॥९॥जिनमखिल०, हे लोकाः समस्तगुणाकरावतारं जिनं भजतं परिचरत, किं विशिष्टं जिनम् ? दलिताः समस्ता इन्द्रियार्थवारा येन स तम् ! प्रशमरसस्य तरङ्गसंयुते नेत्रे ताभ्यां तारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org