SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५९ अधरीकृत देवनदीसुतरीशुचिगीर्विभवं मदये हृदये क्षुदये तरणेर्नम पारगतम् ॥ ६ ॥ ( आलिङ्गनकम् विश्वेन्दीवरभास्वते जिनपते ! त्रैलोक्यवाचस्पते ! शुद्धाचारवते प्रबुद्धमरुते सर्वत्र शोभावते । दुःकर्माद्रिशते युगान्तमरुते निर्लेपतां कुर्वते ब्रह्मज्ञानवते नमो भगवते वामेय ! तुभ्यं यते ! ॥ ७ ॥ ( काव्यम् ) निचितदुरित तिमिरनिकरर विविलसितं सकलसुकृतसुकृतकुमुदविपिनविधुसमुदितम् । क्व हृदये, किं० सदये करुणायुते । कस्मिन् । सति ? उदये सति उद्गमे सति कस्य ? तरणेः सूर्यस्य प्रभाते इत्यर्थः । किं० जिनं, करुणाया दयायाः करणं तस्या दरणम् । स एवाऽर्णवः समुद्रस्तस्य लोलाश्चपला अतिशयेन तरङ्गाः तरङ्गतरा यत्र स तम् तथा तरुणी या रमणी स्त्री तथा शरणीकृतो यो मन्मथः कामस्तस्य मर्म हरतीति । तथा देवनदी गङ्गा, सुतरी शोभना द्रोणी, पवित्रतया विश्वतारणतया च ते द्वे अधरीकृते यया एवंविधा शुचिः पवित्रा गीस्तस्या विभवो लक्ष्मीर्यत्र ॥६॥ हे श्रीवामेय ! विश्वेन्दीवर • हे यते ! हे जिनपते ! हे त्रैलोक्यवाचस्पते त्रिभुवनगुरो ! तुभ्यं नमः । किं विशिष्टाय तुभ्यम् ? विश्वसूर्याय । पुनः किं० ? पवित्राचारवते । पुनः किं० ? प्रबुद्धदेवाय । पुनः किं० ? सर्वज्ञशोभावते । पुनः किं० कल्पान्तवायवे, क्व ? दुःकर्मपर्वतशते । किं कुर्वते तुभ्यं ? कुर्वते, काम् ? निर्लेपतां निःकर्मताम् । ब्रह्मज्ञानवते, तथा भगवते परमैश्वर्ययुक्ताय ॥ ७ ॥ निचितदुरि, हे जिन ! तव गुणरत्नसमूहगणनं अपारं शं सुखं तनुते विस्तारयति, किं०? सन्निचितानि सञ्चितानि यानि दुःकृतानि तान्येव तिमिराण्यन्धकाराणि तेषां निकरः समूहस्तत्र रविविलसितं सूर्यकर्मेव । पुनः किं० ? सकलानि समस्तानि यानि सुष्ठु कृतानि सुकृतसुकृतानि पुण्यानि तान्येव कुमुदानि तेषां विपिनं वनं तत्र विधुसमुदितं चन्द्रोदय इव । पुनः किं० ? अरिः शत्रुः, हरिः सिंहः सर्पो वा, करी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy