________________
त्वां हृदि शुद्धरसेन्द्रमिव प्रविधाय जिनं नागमलं प्रदहन्ति बुधा निजकर्ममलम् ॥ ३ ॥
(सोपानकम् ) कल्याणाम्बुधरो महोदयकरो रोगार्तिगर्ताहरो
मोहोच्छेदकरो जरामरहरो विश्वासकीर्तीश्वरः । भमानङ्गशरोऽहताहिपगरो विध्वस्तजन्मादरो ब्रह्माण्डैकदिवाकरो भवतु मे मित्रं प्रभो! ते गुणः॥४॥
(काव्यम्) सकलमुनिजनप्रमोदकं कमठदग्धहरिप्रतिबोधकम् ।। निखिलभवतमोविरोचनं नम जिनं जगतीत्रयलोचनम् ॥ ५॥
(मागधिका) करुणाकरणादरणार्णवलोलतरङ्गतरं
तरुणीरमणीशरणीकृतमन्मथमर्महरम् । यश्च ते संयतयश्च निर्ग्रन्थाः सम्मतिसंयतयश्चस्ततेषां सन्ततिः श्रेणिस्तस्याः सन्ततिः प्रणाममात्रेण दुर्गतिं हन्तीति तै स तम् । पुनः किं. दर्शनदम् सम्यक्त्वदा. तारम् ॥ ३ ॥ कल्याणांबुज० हे प्रभो! तव गुणो जातावेकवचनम् , मे मित्रं भवतु भूयात् । किं० गुणः ? कल्याणेषु मङ्गलेषु अम्बुधरो मेघ इव । पुनः किं ! महोदयो मोक्षस्तं करोतीति । पुनः किं ! रोगार्तिः रोगपीडा सा एव गर्ता तां हरतीति । पुनः किं. मोहोच्छेदं मोहनीयकर्मविनाशं करोतीति । पुनः किं.? जरामरणहरः । विश्वे ब्रह्माण्डे या व्याप्ता कीर्तिस्तस्या ईश्वरः । पुनः किं० भनं अनङ्गस्य कामस्य शरो बाणो यस्मात् स तथा तं हतं विश्वस्तं अहिपस्य महासपैस्य गरं विषं येन सः। तथा विध्वस्तो जन्मादरो येन । तथा ब्रह्माण्डैकदिवाकरः सूर्यः॥४॥ हे जीव ! जिनं पार्श्वनाथं नमः किं० समस्तयोगीन्द्रस्य प्रमोदकं आनन्दोत्पादकम् । तथा कमठतापसेन दग्धस्य हरेः सर्पस्य प्रतिबोधकम् । तथा समस्तभवतमोऽज्ञानस्य विनाशने विरोचनः सूर्यः किं० जगतीत्रयस्य विश्वत्रयस्य लोचनमिव लो० ॥५॥ करुणाकरणा. हे प्राणिन् ! पारगतं पार्श्वजिनं नमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org