________________
५५
अथ श्रीवरकाणकपार्श्वजिनस्तवनम् ।
नमतामितकामितकामघट घटनापटुनोद्यनिधायि नटम् । निजरूपसुरूपतयाऽस्तजिनं वरकाणकराणकपार्श्वजिनम् ॥ १॥ भजताद्भुतभाग्यभवद्विभवं विभवं भविनां कृतभव्यभवम् । महिमर्द्धिमहोदधिमध्यजिनं वरकाणकराणकपार्श्वजिनम् ॥ २॥ महताहतमन्मथभूमिभुजं भुजगावनिवल्लभलम्बभुजम् । परमारकमारनिरासजिनं वरकाणकराणकपार्श्वजिनम् ॥ ३॥ श्रयत श्रितसेवकदौस्थ्यहरं हरभूधरबन्धुरकीर्तिधरम् । सततत्रिपरीतसमस्तजिनं वरकाणकराणकपार्श्वजिनम् ॥४॥ स्मरत स्मरणोत्सुकसूरिंगणं गणनातिगतुङ्गगुणप्रगुणम् । नतिमात्रनिरस्तजगद्वृजिनं वरकाणकराणकपार्श्वजिनम् ॥ ५॥ कुरुतां नरमान्तरवैरिभरं भरतावनिजं च विभूतिमरम् । प्रणयंतमिमं जनमप्यजिनं वरकाणकराणकपार्श्वजिनम् ॥ ६॥ नुतनित्यनमन्नृपनागनरं नरकादिकपातकवर्णनरम् । यमुनाजलवीचिलसद्वृजिनं वरकाणकराणकपार्श्वजिनम् ॥७॥ नयवानतिमार्गमुदारतरं तरसाहतदुर्गतिदुःखदरम् । मनसा वचसा वपुषा वृजिनं वरकाणकराणकपार्श्वजिनम् ॥८॥ श्रीमेदपाटमरुमण्डलसन्धिदेश श्रेयःप्रवेशवरकाणकसन्निवेशः। इत्थं स्तुतो विजयतां वरकाणनाम श्रीपार्श्वनाथभगवानगुणरत्नधाम .
॥ इति श्रीवरकाणकपार्श्वजिनस्तवनम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org