SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अर्थ द्याणामण्डनमहावीरजिनस्तवनम् । महानन्ददुग्धोदधौ वर्तमानं महामङ्गलालीविधौ वर्द्धमानम् । सुधांधोवधूधोरणीगीयमानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम्॥१॥ परब्रह्मपीयूषपीयूषमानं सुकर्पूरकस्तूरिकासन्निभानम् । समुद्भूतसद्भूतभावर्द्धमानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम् ।।२।। मदोन्मादमाद्यन्मरुल्लेलिहानं वचोव्यजितादेसविज्ञेयहानम् । पदाब्जापतद्यक्षराट्यातुधानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम् ३ महीमण्डपाखण्डलक्ष्मीवितानं समुन्मूलितक्लेशवल्लीवितानम् । नदोन्निद्रजाम्बूनदाम्भोजयानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम्४ नरैः किन्नरैर्निर्ज(रजी)रीभूयमानं कुकर्मोर्मिधर्मच्छिदाकायमानम्। सतां विघ्नविध्वंसने सावधानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम्५ सुदृगजन्तुजीवातुतुल्यावदानं कृतोन्मादिदुर्वादिवृन्दावदानम् । वितीर्णद्विजाद्यर्थितार्थप्रदानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम् ६ वियद्वाहिनीवारिवीध्राभिधानं स्फुरद्भाग्यसौभाग्यसंपन्निधानम् । जगजागरूकप्रभावप्रधानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम्॥७॥ क्षमादक्षताक्षोदितक्ष्माभिमानं मनोनल्पसङ्कल्पकल्पोपमानम् । परिस्फूर्तिमत्कीर्तिभिर्निस्समानं स्तुवे द्याणके श्रीजिनं वर्द्धमानम्८ इति द्याणकक्षोणिभृद्बर्द्धमानः स्तुतः सद्गुणश्रेणिभिर्वर्द्धमानः। जिनो जीवितस्वामिनामादधानश्चिरं नन्दतानन्दयन्तं ददानः९ ॥ इति श्रीधाणामण्डनमहावीरस्तवनम् ॥ __ पं. उदयविजयगणिनाऽलेखि संखेडानगरे इति मङ्गलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy