SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ एवं त्वां स्तवयन्ननन्तमहिमन याचे न किञ्चित् परं देयास्त्वा भवमात्मवैभवभुवं सौवांहिसेवारसम् ॥ १९ ॥ ॥ इति श्रीसीमन्धरखामिस्तोत्रं समाप्तं विबुधमण्डन पं० सहजमण्डनगणिकृतम् ।। अथ पार्श्वजिनस्तोत्रम् । नमद्देवनागेन्द्रमन्दारमालामरन्दच्छटाधौतपादारविन्दम् । परानन्दसन्दर्भलक्ष्मीसनाथं स्तुवे देवचिन्तामणिं पार्श्वनाथम् १ तमोराशिवित्रासने वासरेशं हतक्लेशलेशं श्रियां सन्निवेशम् । क्रमालीनपद्मावतीप्राणनाथं स्तुवे देवचिन्तामणिं पार्श्वनाथं ।।२।। नवश्रीनिवासं नवाम्भोजनीलं नतानां स्वश्रीदानदाने सलीलम् । त्रिलोकस्य पूज्यं त्रिलोकस्य नाथं स्तुवे०॥३॥ हतव्याधिवेतालभूतादिदोषं वृताशेषपुण्यावलीपुण्यपोषम् । मुखश्रीपराभूतदोषाधिनाथं स्तुवे० ॥४॥ नृपस्याश्वसेनस्य वंशेऽवतंसं जनानां मनोमानसे राजहंसम् । प्रभावप्रभावाहिनीसिन्धुनाथं स्तुवे देवचिन्तामणि पार्श्वनाथम् ५ कलौ भाविनी कल्पवृक्षोपमानं जगत्पालने सन्ततं सावधानम् । चिरं मेदपाटस्थितं विश्वनाथं स्तुवे देवचिन्तामणिं पार्श्वनाथम् ६ इति नागेन्द्रनरामरवन्दितपदाम्भोजप्रवर्तितेजाः। देवकुलपाटकस्थः स जयति चिन्तामणिः पार्श्वः ॥ ७ ॥ ॥ इति देवकुलपाटकमण्डनचिन्तामणिपार्श्वजिनस्तोत्रम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy