SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पात्रं भवन्ति भविनो न मनागपीह ___ चोरारिमारिवधवन्धकदर्थनानाम् ॥ १४ ॥ मिथ्यात्वमोहपटलोपचयादनन्त वृद्ध्यांविशुद्धिमुपगच्छत एव देव । प्राप्तोऽसि दर्शनपथं कथमप्यधीश! माऽतः परं भवममान्तरितः कदाचित् ॥ १५ ॥ पुण्यामोघ सुघोष घोघनगरालङ्कारचूडामणे! पार्श्व ! श्रीनवखण्डपिण्डित ! तमोनि शभानूदय । एवं बालकचापलं कलयता मौढ्यात् त्रिलोकीपित विज्ञप्तः किमपि प्रभो त्वमधुना मे बोधिलाभं कुरु ॥१६॥ ॥ इति श्रीघोघामण्डनपार्श्वजिनस्तवः कृतः श्रीज्ञानसागरसूरिभिः॥ सीमन्धरजिनस्तवनम् । श्रेयः श्रीणां निधानं सुमहिमकमलावल्लरीवारिवाह प्राप्तं स्फातिं चतुस्त्रिंशदतिशयपरमोल्लोलकल्लोलपूरैः । ............"ढ्याऽमरनररमणीफुल्लहल्लीसकाय॑म् श्रीमन्तं तीर्थपं तं त्रिजगदवनतं स्तौमि सीमन्धराहम् ॥१॥ वाणी वाचस्पतीया नहि गरिमवती नाऽपि गीर्देवताया । ब्रह्मा जिलायितो नो ऋभुविभुरपि यद्यत्र नाऽलम्भविष्णुः। स्तोत्रे तत्राऽपि वर्तेऽप्रमितगुणवतः स्वामिसीमन्धरस्य । प्रौद्धत्यं तत्र हेतुः प्रखरमुखरतास्फूर्तिकर्यास्तु भक्तेः(?) २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy