________________
उच्चत्वं पञ्चशत्या स्ववपुषि धनुषां योऽय॑कीतिर्बिभर्ति
तैर्वात्रिंशत्प्रमाणैर्मितमथ कवलैः शुद्धमाहारमाह ।' द्वात्रिंशन्मूटमानं प्रतिकवलमहो पोस्फुरीतीह येषु
प्रातातः स मे श्रीजिनपतिरतुलं मङ्गलं पम्फुलीतु ॥३॥ पञ्चाशद्रनिमाने तव मुखकमले केवलालोकहेलि.
रङ्गद्गीर्वादशाङ्गी विमलपरिमलालोलभव्यालिमाले । पायं पायं व्यपायं स्फुरदमृतरसं पुण्यपुण्योपदेशं
शान्तात्माहं कदा स्यामिति दिवसमुखेध्यायतो मे श्रिये स्तातू४ एकैकत्रोरुचोक्षे भरतधरणिजास्ते भवन्त्यष्ट लक्षा - दैर्घादायामतश्च द्विशतसमधिकैकोनविंशाः सहस्राः । यस्य त्यैर्मङ्गलानि प्रविदधति मुदा ते नरा धन्यपुण्याः .
सोऽन्तर्ध्वान्तप्रहन्ता त्रिभुवनतरणिर्मे स्मृतः श्रेयसेस्याः॥५॥ भावी सीमन्धराऽयं कृतसुकृतभरै खरो वासरो मे
श्रेयस्पात्री च रात्री त्रिदशनुत ! कदा सा भवित्री धरित्र्याम् । यत्राऽऽप्तप्रोक्तसप्तप्रयुतदशधनुःपात्रपाणिः सुचाँ
कुर्यां शुद्धानपानैस्तव पदकमलोपासनाप्तव्रतोऽहम् ॥ ६ ॥ उन्मन्नाक्षेभजैत्र स्वसमिति कलया क्रौञ्चबन्धं बबन्धे
रागारातिस्त्वयोवीपतिरतिदरतस्त्वां नु तत्सेवतेऽयम् । वेल्लत्किकेल्लिवल्लिच्छलकलिरतुलः पल्लवैर्लोलहस्तै
स्तन्ननर्ति प्रसत्यामपि च सुखयति च्छायया ते सदस्यान् ॥७॥ भक्तिप्रहप्रणम्रामरनरनिकरांस्तात ! चिन्ताव्यतीत
श्रेयःश्रीणां प्रदानैः पृणसि करुणया त्यागलीलाकलां ताम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org