________________
४९
पद्मावतीधरणराजनिषेव्यमाण
पार्श्वद्वयोत्तम जयाविजयाभिवन्द्य !। अङ्गीकृतैकनवखण्डमुनामधेयोऽ
प्याखण्डलानत ! सुखं विदधास्यखण्डम् ॥ ९ ॥ मिथ्यादृशोऽपि भगवन् ! भवदाधिपत्यं : ... दृष्ट्वा भवन्ति सुदृशो लघुकर्मकास्ते । म्लेच्छादिपामरजना बहुमानयन्ति ___ देवं भवन्तमनिशं प्रकटप्रभावम् ॥ १० ॥ काले कलौ लसति सीदति साधुवर्गे
कामं खले प्रभवतीह समानुभावात् । दौस्थ्यादिदोषकलुषे क्षितिमण्डलेऽपि
त्वं जागरूकमहिमा जयसि प्रकामम् ॥ ११ ॥ कल्पद्रुमस्तव पुरः प्रथितोऽल्पदायी
चिन्तामणिः स खलु काममणुप्रभावः । सा कामधेनुरपि कल्पितकीर्तिमात्रं
स्वर्गापवर्गसुखदायक ! विश्वबन्धो !॥ १२ ॥ सत्पूजनस्तवनचिन्तनपुण्यकृत्यै
ोगत्रयं जिन ! वपुर्वचनं च चित्तम् । त्वत्पर्युपास्तिनिरतं कृतिनो ध्रुवं स्यात्
श्रद्धानुबोधचरणात्मकयोगशुद्ध्यै ॥ १३ ॥ देव ! त्वदीयचरणप्रणतोत्तमाङ्ग__ सङ्क्रान्तरेणुकणरक्षितसर्वगात्राः। स्तो. स. ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org