SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ दोषाकलङ्कजडताश्रयिणः सुधांशोः ___ साम्यं कथं भवतु ते वदनस्य देव !। नित्यं श्रियः कुलगृहस्य हि यस्य गाव स्तापं जनस्य समयन्ति सुधायमानाः ॥ ९॥ त्रैलोक्यलोचनसुधाञ्जन ! चारुरूप ! चन्द्रांशुचारुचमरावलिरुत्तरन्ती । मौलेगिरेरिव नदी जलपूरपूर्णा ___ पार्श्वद्वयेऽपि तव देव विभाति शुभ्रा ॥ १० ॥ मित्वा विभो ! नरसुरासुरसम्पदोऽसौ सिंहः सुवर्णमणिनिर्मितमासनं ते । संश्रित्य विज्ञपयतीव यथा भवाब्धे. म नाथ ! तारय पशुं पशुजात्यपेतम् ॥ ११ ॥ सम्भावयामि भवतस्तनुसम्भवेन भामण्डलेन शितिना जिन ! भासुरेण । पूर्ण नभस्तलमिदं सकलं यदीति नो तत्कथं नरकतापमिदं बभूव ॥ १२ ॥ व्योमस्थितस्त्रिदशदुन्दुभिरेष हृद्यः पुंसां नदन्निति विभो ! वदतीव नित्यम् । भो भो जगत्रयपतिर्जगदर्थवेदी __ नाऽतः परोऽस्ति भुवने तमुं श्रयध्वम् ॥ १३ ॥ लोकत्रयैकतिलकं प्रणमन्त्यमुं ये ते कीर्तिकेवलशिवत्रयमाश्रयन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy