________________
४५
विश्वत्रयीसकलमङ्गलदानदक्ष ! विश्वत्रयोद्धरणधीर ! सरोरुद्दाक्ष ! ॥ ३ ॥
संसारवारिनिधितारणयानपात्र !
त्रायस्व विश्वमखिलं गुणरत्नपात्र ! |
कीर्त्तिप्रतापपरितर्जितपुष्पदन्त !
पार्श्वप्रभो ! भुवनभूषण ! पुष्पदन्त ! ॥ ४ ॥
देव ! त्वदङ्गमहसा सहसा जितेव सूर्याङ्गजा जलभरं वहते हतेर्ष्या ।
त्रैलोक्यलोकमहितस्य हितस्य सर्व
सत्त्वेषु ते कथय को नहि किङ्करोस्ति ? ॥ ५॥ ध्यानानलेन भवता भुवनाधिनाथ !
कर्मेन्धनं निधनमाप्यत पार्श्वनाथ !
I
त्वन्मूर्ध्नि नागपतिसप्तफणामिषेण
तेनैव धूमलहरी लसति प्रकामम् ॥ ६ ॥ स्वामिन्नशोकतरुरेष जनानशेषान् ।
धर्मं दिशन्निव खैरलिनां करोति ।
प्राज्यप्रभावभवनस्य भवादृशस्य
सङ्गान्न के विमतयोsपि भवन्ति तज्ज्ञाः ॥ ७ ॥ मन्ये पुरस्तव विकस्वरपञ्चवर्ण
जानुप्रमाणकुसुमप्रकरच्छलेन ।
विश्वाधिपस्य भवतो भयतः स्मरेणाऽ
मुध्यन्त पञ्चविशिखाः सविषादमीश ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org