________________
४४
यस्येशितुर्मुनति नैव पार्श्व विपत्तिवीरुतति तीक्ष्णपार्श्वम् । पार्श्वः सदौदर्यजितालकेशः स श्रीकरः श्रीकरछेडकेशः ॥ २ ॥ यदीयमूर्त्तिः सुरसौरभेया चित्रं प्रसूतेहयदास्तिकादीन् । महोदयानन्दद्याब्धिकेशः स श्रीकरः श्रीकरहेडीकेशः ॥ ३ ॥ मूर्त्ति यदीयां दिविषल्लतावत् करोति नित्यं कृतिकामितार्थम् । गाम्भीर्यसन्तर्जितसर्वकेशः स श्रीकरः श्रीकर हेडकेशः ॥ ४ ॥ इत्थं स्तुतः श्रीकर हेडनामा प्रभुः प्रभूतप्रभुताभिरामः । श्रीपार्श्वविश्वत्रराट् प्रकामकामान् प्रकुर्यात् प्रगुणर्द्धिधाम ॥ ५ ॥ ॥ इति करहेडापार्श्वनाथस्तोत्रम् ॥
अथ करहेटकपार्श्वजिनस्तवनम् ।
स्वामिन्नमन्नरसुरासुरमौलिमौलिरत्नप्रभापटलपाटलिताङ्घ्रिपद्म ! |
पार्श्वप्रभो ! भुवनभासनभास्कर ! त्वामानौम्यमानबहुमानमहं महेश ! ॥ १ ॥
श्री अश्वसेननरनाथकुलावतंस ! वामावरोदरसरोवरराजहंस ! । भव्याङ्गिमानसमहार्णवपूर्णचन्द्र !
कस्त्वां न नौति जिननायक ! वीततन्द्र ! ॥ २ ॥
विश्वत्रयार्त्तिहरणप्रवण ! प्रवीण ! विश्वत्रयीमथनमन्मथभावहीन ! |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org