SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ जगति सकले योऽर्हन् दत्वा मुदा वरवार्षिक पदरज इवाऽत्याक्षीद्राज्यं क्षणेन च दुस्त्यजम् । उपशमरसाम्भोधिर्बोधिप्रदो ब्रतमग्रहीत् जिनदिनकरो वामेयोऽसौ प्रबोधकरोऽस्तु नः ॥७॥ कमठविहितज्वालाजिप्रतप्ततनुः फणि धरणपतितां यस्यालोकाद्गतः परसंमृतौ । स्फुरति महिमा [तत्रा]ऽद्यापि प्रवृद्धकलौ युगे __भवभयभिदो वामेयोऽसौ स एव भवे भवे ॥ ८॥ इत्यष्टकं प्रेमकरं प्रभाते __ पार्श्वप्रभोर्ये मनुजाः स्मरन्ति । देहे च गेहेऽपि भवन्ति तेषां श्रियः समाना सततं नराणाम् ॥ ९ ॥ इत्थं स्तुतः सकलकामितकृत् सुपार्श्वः सूरीशितुर्विजयराजगुरोश्च राज्ये । प्राज्ञप्रधानगुणतो विजयस्य शिष्यमानेन भक्तिभरतो मधुपूर्णिमायाम् ॥ १० ॥ ॥ इति पार्श्वजिनस्तवनम् ॥ अथ श्रीकरहेडापार्श्वजिनस्तवनम् । - -- प्रोःप्रभावः प्रसरीसरीति प्रभोः प्रभाणामिव यस्य भर्तुः । कालिन्दिकाकजलकान्तकेशः सः श्रीकरः श्रीकरहेडकेशः ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy