SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ निजहृदि गतं कृत्वा श्रीमद्गुरोरमिधाजपं शिवसुखकरं श्रीवामेयं नये स्तुतिगोचरम् ॥ १॥ कुशलकुसुमक्रीडारामप्रवर्द्धनवारिदो भुवनजनताप्राणत्राणप्रधानकृपाम्बुधिः । वदनशतभृत्प्रादुर्भूतप्रभूतप्रभाभरो जिनपतिरसौ श्रीमत्पार्थो ददातु सुखं सताम् ॥ २॥ तुरगवदनैर्गीतस्फीतस्फुरच्छुचिसद्यशा . विमलमतिभिर्ध्यातः प्रातर्महर्षिभिरादरात् । वचनरचनामाधुर्येणाऽधरीकृतसत्सुधा मधुरिमगुणो योऽसौ पार्श्वः श्रिये भवतान्मम॥३॥ पदसरसिज देवाः सेवाविधानविचक्षणा विकचकमलैर्यस्याऽभीक्ष्णं यजन्ति जिनेशितुः । स्फुटगुणगणान् स्मारं स्मारं नमन्ति च भूस्पृशः सकलभविनां वामेयोऽसौ श्रियेऽस्तु दिनागमे ॥४॥ भवति च नृणां यन्माहात्म्यान्महोदयभूषितात् द्विरदतुरगक्षोणिर्योषायुता कमलाचला । स्फुरदसि नभोनीलाम्भोजप्रकारतनुच्छविं सुरमणिनिभं तं श्रीपार्श्व प्रणौमि सुखाप्तये ।। ५ ॥ श्रवणपुटकैः पायं पायं वचोऽमृतमुत्तम सकलमनुजा नामं नामं यदीह पदाम्बुजम् । अभिनवयशो गायं गायं प्रमोदमुपागता भवभवमहादुःखं त्यक्त्वा भवन्त्यजरामराः॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy