________________
४१
विक्रान्तमन्तर्द्विषतामनन्तमहं तु तद्वक्तुमनीश्वरोऽस्मि । न मे न विद्वानसिदुःखमाभिस्तदालजालाभिरलं कथामिः ॥२७॥ ध्यानानलेन ज्वलता प्रकामं दग्धेषु दुष्कर्मसु मे मुनीश!। इमास्त्वदालोकनहर्षजन्मा आपो निवापाञ्जलयो भवन्तु ॥२८॥ विजित्य रागादिरिपूनुपेत्य स्वधाम विद्यावनितासहायः । तत्ते प्रसादात् परमोपदेशपीयूषपानोत्सवमाचरेयम् ॥ २९ ॥ वदावदातैर्भवदागमानां वाग्भैषजै रागरुजं निवर्त्य । कदा मया प्रौढसमाधिलक्ष्मीनिवेक्ष्यते निर्वृतिनिर्विशेषा ॥३०॥ रागादिहव्यानि मुहुर्लिहाने ध्यानानले साक्षिणि केवलश्रीः। कलत्रतामेष्यति मे कदैषा वपुर्व्यपायेऽप्यनुयायिनी या ॥३१॥ अभूवमीश! व्यपदेशवणः सूरप्रभः किन्तु तदा प्रसीद । यथाऽस्तरागादितमःसमूहः स्फुरन्महाः स्यामहमर्थतोऽपि ॥३२॥ इत्थं स्तोत्रमयीं निशम्य करुणाकूपार ! पार्श्वप्रभो!
विश्वव्यापिविपद्व्यपोहनविधिव्यग्रोऽपि विज्ञापनाम् । देव ! स्तम्भनकेश ! केवलकलासीमन्तिनीसङ्गतां स्वामिन् ! मां नय सिद्धिसौधवलभीनि!हपर्यन्तिकाम् ॥३३॥
॥ इति श्रीस्तम्भनकेशपार्श्वजिनस्तवनम् ॥
श्रीः। अथ श्रीपार्श्वजिनस्तवनम् ।
चरणकमलं श्रीवाग्देव्याः प्रसादपरं सतां
रुचिरमतिदं मत्वा नत्वा मुदा विहिताञ्जलिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org