________________
४७
कुन्देन्दुसुन्दरतरं त्रिजगजनानां
छत्रत्रयं तव निवेदयतीव देव !॥ १४ ॥ कुन्दावदातयशसं भगवन् ! भवन्तं
मिन्नेन्द्रनीलमणिनिर्मलकायकान्तिम् । कारुण्यपुण्यहृदयं (हृदि यो) बिभर्ति __ यान्ति क्षणेन विपदः क्षयमीश ! तस्य ॥ १५ ॥ इति श्रीमत्पार्श्व ! क्षितिवलयविख्यातकरहे___टकक्ष्मालङ्कार ! त्रिभुवनपते नम्रशिरसाम् । सभावं स्तोतृणां विदलय महामोहपटलं घनं कर्मवातं हर वितर निर्वाणपदवीम् ॥ १६ । . ॥ इति श्रीकरहेटकपार्श्वदेवस्तवः ॥ अथ घोघामण्डनपार्श्वजिनस्तवः ।
अम्भोधिवीचिचयचुम्बितभूमिभागे
घोघापुरे प्रथितधार्मिकधर्मरागे। जीयाजिनेश ! नवखण्डकृतावतार ___ श्रीपार्श्व ! विश्वविदितप्रभुतैकसार ! ॥ १ ॥ सर्वज्ञ ! धर्मपरिपूतमतिस्त्वमीश!
जातोऽपि पोतनपुरे मरुभूतिविप्रः (१)। भ्रात्रा शठेन कमठेन हतस्त्वटव्यां
मयो बभूविथ(२)तदा द्विपभद्रजातिः ॥ २ ॥ तत्राऽरविन्दमुनिकुञ्जरगीः प्रबुद्ध
स्त्वं कुर्कुटोरगविषव्यथितो विपद्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org