________________
सौभाग्यभाग्यकमलाकमलायमाना
निद्राननाकृतिनिरस्तनिशाधिनाथम् । स्वानः स्मरध्वमधिमारुतनामनाथं __ भोभो जना ऋषभनाथमनाथनाथम् ॥ ३॥ विद्युत्प्रचण्डरुचिदण्डदवामिपिण्ड
जैत्रप्रतापभरभमदिवाधिनाथम् । नित्यं नमध्वमुदयाब्धिजलाधिनाथं
भोभो जना ऋषभनाथमनाथनाथम् ॥ ४ ॥ श्रीऋषभनाथ नामप्रभुः प्रभूतप्रभुत्वगुणधाम । इति मेदपाटमुकुटः स्तुतो जयतु कामकामकुटः ॥ ५ ॥
॥ इति श्रीऋषभजिनस्तवनम् ॥
अथ श्रीजाउरमण्डनशान्तिजिनस्तवनम् । कल्याणकारणमकारणशान्तिहेतुं
सेतुं विपत्तिजलधौ कलधौतकेतुम् । सन्तापपापपवनाशनवैनतेयं __ श्रीयोगिनीपुरपुरन्दरमाचिरेयम् ॥ १॥ व्याकोशचम्पकमणीवकगौरगात्रं
पात्रं प्रभूतमहसां महसाममात्रम् । श्रीसिद्धिसिद्धिपुरपद्धतिसौरभेयं
श्रीयोगिनीपुरपुरन्दरमाचिरेयम् ॥ २ ॥ मिथ्यात्वमन्मथतमोहरण्मेष्णभासं
निस्सामसाम्यसलिलेशसुसीमभासम् । स्तो. स. ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org