________________
विश्वाधिपंकपरिशोषणधर्मरश्मि
विश्वाधिपं शरणमेष जनो गतस्त्वाम् ॥ १९ ॥ स्तोत्रे तवाऽत्र यमकैर्यमकैरवेन्दो
पुण्यं यदार्जि सुरसे सुरसेव्यहब्धे । तेनैधि मे कृतभवान्त भवान्तरेऽपि
स्वामी त्वमेव शमिना शमिनान्तरारो ॥ २० ॥ यं त्रैलोक्यपितस्तव स्तवमिमं संस्तब्धवान् मुग्धधी
रप्याचार्य जिनप्रभः श्रवणयोरानन्दिनिस्यन्दिनम् । भक्तिव्यक्तितरङ्गरङ्गिसनसं पुंसाममुं सादरं पापः पापठतां प्रयाति विलयं संसारनामा रिपुः ॥२१॥
इति श्रीअजितनाथस्तवनम् ॥
पं० देवविजयगणिलिखितम् , सभाशृङ्गारहारमुनिज्ञानविजयपठनार्थमिति भद्रम् ।
अथ ऋषभजिनस्तवनम् । त्रैलोक्यलोककुलकल्पितकल्पनैक
कल्पद्रुमं क्रयनमश्रिदशाधिनाथम् । भक्त्या भजध्वमरिहंकुकुरङ्गनाथं
भोभो जना ऋषभनाथमनाथनाथम् ॥ १ ॥ चश्चञ्चरित्रशुचिदर्शनसुप्रधान
ज्ञानश्रियं वितरणे रजताद्रिनाथम् । आराधयध्वमुरुधैर्यजिताद्रिनाथं
भोभो जना ऋषभनाथमनाथनाथम् ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org