________________
३१
भव्याय देहि तरसा तरसा प्रसिद्ध
भूमान मत्रभवतीः कमलायताक्ष ||१३|| महायमकम् ॥ अस्मारि येन नहि सर्परमानिवासः
प्रीत्या भवान् प्रथितकीर्त्तिरमानिवासः । संपद्यतां कथमिवाऽत्र नरो गतापत् स्वामिन् विधूतविनमज्जनरोगताप ॥ १४ ॥ माराजितं भुवनरक्षणबद्धकक्ष
माराजितं जिनपतिं प्रतिनम्रतां यः । माराजितं प्रविततं लभते स राज्यमाराजितं त्रितजयश्रपयामदीक्षः ॥ १५ या निर्मलेन जनतामनसारसेन
देवार्चिताङ्गियुग सज्जनसारसेन । आज्ञाविधौ भवति तेनलसारसेन
बम्भ्राम्यते भवसरस्वतिसारसेन ॥ १६ ॥ आख्यातमीश भवता भवतापतप्त
भव्याङ्गिचन्दनरसं नरसङ्घमुख्याः ।
केचित् कृपारसमयं समयं शरण्यं
भव्या व्रजन्ति शरणं शरणं गुणानाम् ॥ १७ ॥ दृष्ट्वा तवास्यमकलङ्कमलानिशान्तं शान्तं दृशोरमृतमात्मगतं महर्षे ।
हर्षेरिताश्रुसलिलप्रवहैः कदाहं
दाहं भवाग्निजनितं प्रशमं नयामि ॥ १८ ॥ पञ्चाशदश्चितचतुः शतज्ञापमानं
हेम्नः सृजन्तमभिरामरुचापमानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org