SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २२ खेलत्केकिकलं तदूर्ध्वमतुलं रेजे जटामण्डलं देवः सेवकवत्सलः स जयताच्छ्रीमारुदेवश्चिरम् ॥ १२ ॥ धर्मद्रोहणलम्पटं जितवतोर्मोहं जगत्कण्टकं ___ स्वामभ्यर्णमवाप्तयोः सबलयोः सुध्यानयोर्वीरयोः । मुक्तेः खगलते इव प्रबभतुर्यत्के जटासन्तती ___स श्रीआदिजिनस्तनोतु विजयं स्वर्भूर्भुवोनायकः ॥ १३ ॥ सोल्लासं परिरब्धयोः सुचरणज्ञानश्रियोः सन्ततं दिव्यन्नीलमणीघृणीविलुलिते......"वेणीदृशोः । यस्यांसस्थलयोर्विलोलनलिनीनीलीदलश्यामले भ्रातः कुन्तलमालिके स जयतु श्रीनाभिजन्मा जिनः॥१४॥ नाभेः सम्भवमाप पापशमनः स्रष्टा च वेदस्थितेः संप्राप्तः परमेष्ठिनां वरचतुर्वर्णव्यवस्थाकरः । यो ब्रह्मा जनकश्चतुर्मुखधरः स ब्रह्मरूपः सतां लोलन्नीलजटावलिः कलिमलं भिन्द्याधुगादीश्वरः ॥ १५ ॥ शुक्लध्यानानलेन प्रसृमरमहसा देहमूषान्तराले जीवद्रव्यात् सुवर्णादतिमलिनतमायैश्च सन्ताप्यमानात् । रागद्वेषादिकिट्टिप्रकर इव बहिः कुन्तलालीछलेन जातः सज्जातरूपधुति ऋषभजिनः स श्रिये भूर्भुवःस्वः ॥ १६ ॥ स्पर्धा सार्द्ध त्वया यत्प्रतिहत मितिभिर्निर्मिता कल्पवृक्ष__ हानिस्तेषां ततोऽभूद्भुवि भवति शुभं स्पर्द्धया कि महद्भिः । स्वामिस्तेभ्यः प्रसीद त्वमिति कथयतुं तत्प्रियाकल्पवयः प्रापुर्दम्भाजटानामुपयदमृषभः श्रेयसे वः स भूयात् ॥१७॥ ....... युगलस्वभावसरले लावण्यपुष्यामृता द्यस्य प्राणिगणैः स्वलोचनपुटैः पेपीयमानास्ववा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy