SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ तद्विन्दुप्रकरैः पतद्भिरुदगुर्दूर्वाङ्करा अंशयो- झेलत्कुन्तलकैतवात् स भवताच्छ्रीनाभिभूर्भूतये ॥ १८ ॥ सौभाग्यैकनिधानयोनयनयोर्यस्य प्रशस्यश्रियो रक्षाधानकृतावधानमुरुगद्वन्द्वं घनश्यामलम् । पीनस्कन्धतरा विलम्बितजटाव्याजात्तनु भ्राजते श्रेयः श्रेयगुणाश्रयः स वृषभस्तन्यात् सुभव्यात्मनाम् ॥१९॥ चक्रेऽस्माभिस्त्वदीये नहि खलु विषयग्रामभङ्गादिराज्ये तस्मात् कस्मादकस्मात् प्रभुरधिगतवानस्मदुच्छेदकीम् । दीक्षामेतामितीवाऽनुनयनविधये मोहराजस्य दूतो ___ यत्कर्णाभ्यर्णमाप्तौ चिकुरततिमिषात् स श्रिये नाभिसूनुः २० पावित्र्योज्वलतादिकान् गुणगणान् गङ्गापगाया इव ___ त्वं मह्यं जिन ! देहिदेहिपटलीवाञ्छासुपर्वद्रुम । एवं प्रार्थनयेव सूर्यतनया यस्याऽन्तिकं सङ्गता __ दम्भात्कुन्तलसन्ततेः स तनुतां श्रीआदिदेवः श्रियम् ॥२॥ सम्यग्ज्ञानसमुज्वलस्थिरजलः सत्कज्जलश्यामलो न्मी लत्कुन्तलपारिजातकदलप्रोल्लासितांसस्थलः । कल्याणद्युतिमञ्जलः पथि दृशोः प्राप्तः फलन्मङ्गल श्रेणीभिर्वृषभः स पूर्णकलशः सौख्यानि पुष्णातु वः ॥२२॥ यस्यास्येन्दुमरीचिवीचिनिचयैरत्युल्लसद्भिः पुरो द्वैधीभावमवापितेव तमसां श्रेणी स्थिता पार्श्वयोः। नीलीश्यामलकान्तिमांसलकलस्फूर्जजटायामल द्याज्यात्सोऽस्यतु नाभिभूर्जिनपतिर्मन्मानसात्तानसम्॥२३॥ गाङ्गेयच्छायकर्णद्वयरुचिररुचिप्रेङ्खदैरम्मदश्री दन्तज्योतिर्बलाकाविततिपरिगता मेघमाला विशाला । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy