SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २१ स्वामिन्! मां निष्कलङ्कां परिहरसि किमु स्नेहलां कर्तुमेवं विज्ञप्तिं राज्यलक्ष्म्याऽनुनयनिपुणया दूतिके प्रेषिते किम् ? । दीक्षायां यस्य शस्यश्रुति तटजटयोः कैतवाद्वैतदम्भात् स श्रीनाभेयदेवः प्रथयतु भवतां संहतीरीहितानाम् ॥ ७ ॥ यद्वक्रेण जिता पयोजपटली नंष्ट्वाऽम्बुदुर्गं श्रिता तत्रापि व्यथिता मरालविहगैः कीर्तेः सुहृद्भिस्ततः । तन्मा... Sम्बुजिनीव संधिविधये यत्पृष्ठिलग्नाऽभ्रमत् प्रेङ्खत्कुन्तलमालिकाकपटतः सोऽस्तु श्रिये नाभिभूः ॥८॥ स्वामिंस्त्वन्मुखमत्सरान्मम पतिर्जातः कलङ्की ततः कारुण्यैकनिधे ! प्रसीद न पुनः सेर्ष्या भविष्यत्यसौ । कर्णाभ्यर्णमिवाययाविति तमी विज्ञिप्सुरिन्दुप्रिया व्याजात् स्कन्धजटावलेः स भवतां श्रीआदिदेवः श्रिये ||९| सौभाग्यैकनिधिर्जरोपधिलुलन्नीलालिमालोदधि र्दारिद्रथप्रलयः प्रभारुणनख प्रेङ्खत्प्रवालालयः । निर्वाणैकफलः कराङ्गुलिदलच्छायाश्रिया मांसल : कल्पदुर्वृषभः करोतु स शुभश्रेणीं सुवर्णप्रभः ॥ १० ॥ उद्यद्ध्यानदवानलोच्छलदुरुज्वालावली प्रज्वलत्दुर्वारस्मररागरोगविषयाऽहङ्कारकान्तारतः । धूमश्रेणिरुदुल्ललास किमसौ यन्मौलिदेशे जटा व्याजेन त्रिजगत्प्रभुः स जयतात् श्रीआदितीर्थङ्करः ॥ ११ ॥ यस्मिन् श्रीसदने विभावि भुजयोर्युग्मं बृहत्तोरणं स्तम्भद्वन्द्वनिभं सपूर्णकलशं पीनांसयोर्दम्भतः । १ शस्य - बालको तृणे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy