SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १८ आकर्णान्तनिकृष्टदुर्धरधनुर्दण्डप्रचण्डायुधश्रेणीभीषणमुद्भकुट्यतिकटूद्यत्कण्टकं सङ्गरे । लक्षं दक्षमहीभुजामभिसमायादेव देवाऽभवद्वीरव्रातशिरोमणे भुजमहो दृष्ट्चैव ते निर्मदम् ॥ १७ ॥ ( युद्धवीरः ) शङ्खे त्वत्परिपूरिते त्रिभुवनक्षोभप्रदे कोऽप्ययं मत्तोऽपि प्रबलो बभूव भरते राज्यं ध्रुवं यास्यति । इत्युद्भूतभियाकुलः परिगलत्प्रस्वेदबिन्दुर्भव द्रोमाञ्चः क्षणमात्रमत्र हरिरप्यासीत् त्रिलोकीपते ! ॥ १८ ॥ ( भयानकः ) वर्चोमूत्रमुखस्रवन्मलनवस्रोतः श्रिते प्रस्फुरदुर्गन्धा स्थिशिरोरुकी कसरसासृक्चर्मभिः पिच्छिले । देहेऽभ्यन्तरसञ्चरत्कृमिकुले मुह्यन्तु मा प्राणिनः श्रुत्वैतद्वचनं जिनेन्द्र ! भवतो नैके जनाः प्राव्रजन् ॥१९॥ ( बीभत्सः ) यश्चाणूरमपाकरोद्रिपुजरासन्धं स्म विध्वंसते कंसं भ्रंशितवानरिष्टमपिनट् मध्वादिकांश्चाऽवधीत् । बाहोः कोटिशिलां दधार धरणीपीठात् समुत्क्षिप्य तां, स्वामिन् ! सोऽपि हरि त्वयेह हरिवद्दोः पादपेऽन्दोलितः २० ( अद्भुतः ) प्राकारत्रितये सुरैर्विरचिते ज्ञानोद्भवे ते विभो ! रम्भारम्भितनाटकेति झटिति प्राचीकटत् कौतुकम् | अङ्गुल्यमतटे शतं करटिनां तेषां शिरस्स्वामरं भूधं तत्र च दुग्धवारिधिमुखान् सप्तापि वारांनिधीन् ॥२१॥ ( अद्भुतो रसः ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy