SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ योगीन्द्रं समशत्रुमित्रमचलध्यानाधिरूढं जग न्मैत्रीभावमुपागतं जिनपते ! त्वां वीक्ष्य साक्षाद्वने । ते हर्यक्षतरक्षुभोगिशरभव्याघ्रादयो दुर्धराः क्रूरा अप्यभवन् गजादिषु गलत्क्रोधानुबन्धाः क्षणात् २२ (शान्तः) स्वामिन् शान्तरसाधिपे विनिहितेऽन्तश्चित्तमूषं ज्वलत् शुक्लध्यानतनूनपाति समिधीभूतेषु दुःकर्मसु । नागं ज्ञानचतुष्टयं समभवत्ते केवलं हाटकं येनाऽस्मिन् भुवनेऽप्यजायत जने दौस्थ्यस्य दौस्थ्यं महत्२३ (शान्तः) तेजःपाल इति प्रसिद्धसचिवः श्रीगूर्जराधीशितुः श्लाघ्यः कस्य न निर्मलैर्गुणगणैः श्रीवस्तुपालानुजः । यः श्रीविक्रमतोऽष्ट(१२८८)मङ्गलकरोर्वीसम्मिते वत्सरे निर्मातिस्म तवेश! विस्मयकरं प्रासादमुच्चैस्तरम् ॥ २४ ॥ श्रीनाभेः कुलमण्डन ! त्रिजगतीहारादिदेव ! प्रभो! __ श्रीधर्मामृतसोमसुन्दरगुरो ! स्वर्भूर्भुवोवन्दितः। श्रीनेमेऽर्बुदभूधरे त्रिजगतीसङ्कल्पकल्पद्रुमः स्वामिस्त्वं भव सर्वदापि भवने श्रेयोऽभिवृद्धिश्रिये ॥२५॥ इति श्रीअर्बुदमण्डनश्रीयुगादिदेवश्रीनेमिनाथस्तवनं . श्रीभुवनसुन्दरसूरिकृतम् ॥ ॐनमः। - युगादिजिनस्तवम् । ॐकारः सकलत्रिलोककमलास्वीकारलीलाविधौ हीकारः कलिकालकल्मषमलप्रक्षालनाकर्मणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy