SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ काचिदुर्भगभामिनीह भगवंस्त्यक्ताऽपि भा सदा त्वामाराध्य सुवर्णसोदररुची रम्भेव रूपश्रिया । जाता सा स्वगृहं गता पतिरथो तस्या रमागादियं मद्भाग्यादिति तत्पदोनिपतितः कैर्नाम नाऽहस्यत? १२ (हास्यः) दृष्ट्वाऽखैरतिभीषणान नृपनरान् सर्वाङ्गकम्पाकुला ऽनाच्छाद्याऽऽत्मशिशूनसूनव जिनेत्याक्रन्दतो मूर्च्छतः। नानापक्षिपशून् निरीक्ष्य भगवन् ! जाता कृपा ते तथा मुक्त्वा तानपरेऽङ्गिनोऽपि भवता दुःखाद्यथा मोचिताः १३ (करुणा) दोर्दण्डात्तगदाभिचूर्णितबृहन्मातङ्गकुम्भोच्छल द्रक्तस्रोतसि खड्गलूनसुभटोद्यन्मुण्डचण्डावनौ । नृत्यन्नव्यकबन्धभीषणतरे शस्त्राभिघातोद्धरे __ युद्धे ते स्मरणाद् वृणोति विजयश्रीः प्राणिनं देव ! सा १४ (रौद्रः) सर्वे स्थावरजङ्गमात्रिभुवनान्तर्वर्तिनो जन्तवः ___ स्युः सौख्यैकमया मया यदि समाविर्भाव्यते शासनम् । ध्यात्वेत्थं गुरुगर्जितेभतुरगश्रेणी मणीबन्धुरं तद्राज्यं भगवन् ! जरत्तृणमिव त्यक्त्वा त्वयात्तं व्रतम् १५ (धर्मवीरः) नानाप्रकारमणिमौक्तिकहाटकानां कोटीर्यथेष्टमनृणीकृतविश्वविश्वः । अर्थिब्रजे त्वयि वदत्यविराममेव जज्ञे सदैव धनदोऽपि मदोज्झितः साक् ॥ १६ ॥ ( दानवीरः) स्तो. स. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy