SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भव्याङ्गिनां प्रमदमेदुरमानसानां ___ तापः प्रयाति सकलोऽपि भवभ्रमोत्थः ॥ ७ ॥ निद्रायां समवेक्ष्य भोजनतया या प्राप्तवान् मे प्रियो नूनं मद्विरहादिति स्फुटभवद्रागव्यथोन्मन्थता । त्वां संभुज्य मनाग बभूव सुखिनी साक्षात्समागत्य तां प्रीणीहीति तदालिवाचि विमुखः श्लाघ्यस्त्वमेव प्रभो! ॥८॥ ॥ इत्याद्यरसस्याऽऽद्यो भेदः ॥ त्वत्सङ्गमो मम यदा भविता तदेव श्लाघ्यं दिनं सकलमप्यपरं वृथैव । एवं वियोगमयवाचि जिनेन्द्र ! राजीमत्यां विरागहृदसीति न कस्य वर्ण्यम् ॥ ९ ॥ (अभिलाषविप्रलम्भः ) मुक्ता या भवताऽतिनिर्दयमसौ राजीमती प्रोद्भवन्मानात् त्वत्सविधेऽपि नाऽगमदियत्कालान्मुने! साऽधुना । त्वामाकारयते नु सादरमिति प्रोक्तोऽपि तस्याः सखीवृन्दैरार्द्रमना मनांगपि विभो ! जातो न चित्रं महत् ।। १० ।। (मानविप्रलम्भः) संप्राप्ते त्वयि रैवते विरहतो नाथोग्रसेनात्मजा कण्ठाभ्यन्तरघोलनाऽतिमधुरं गीतं तथेयं जगौ । यद्वत्ते पशुपक्षिणोऽपि भगवन् सार्दा बभूवुः क्षणात् श्रुत्वाऽदोऽपि न दुःखितस्त्वमसि तत् श्रीवीतरागो ध्रुवम् ११ (प्रवासविप्रलम्भः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy