SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १५ न स्वर्नाथगुरुर्न दानवगुरु! भारती देवता स्तोतुं यान् प्रभवो न ते गुणगणांस्तेषु स्पृहा मे विभो । तन्नाभेयजिनाऽल्पमेधसममी लोका हसिष्यन्ति मां युक्तायुक्तविचारकन्न तरलीभूतोऽथवा भक्तितः ॥ २ ॥ पत्रं व्योम मषी महाम्बुधिसरित्कुल्यादिकानां जलं लेखिन्यः सुरभूरुहाः सुरगणास्ते लेखितारः समे । आयुः सागरकोटयो बहुतराः स्युश्चेत्तथापि प्रभो ! _ नैकस्यापि गुणस्य ते जिन! भवेत् सामस्त्यतो लेखनम्॥३॥ मोहान्धकारहरणे तरणे! त्रिलोकी भूषामणे ! गतरणेऽस्तु मदीयचित्तम् । सौख्येन्दिरेकवरणे करुणेश! लीनं स्वामिस्त्वदीयचरणे धरणे गुणानाम् ॥४॥ भ्रान्तः परेषु सुरभूमिधरेषु पुण्य चिन्तामणिः किमुत नाथ! मया न लेभे । त्वां रोहणाद्रिमथ देव ! समागतोऽत__ स्तहानतो जिनपते ! तु गृहाण सद्यः ॥ ५ ॥ श्रीमद्गौर्जरभीमदेवनृपतिर्धन्यः प्रधानाप्रणीः प्राग्वाटान्वयमण्डनं स विमलो मत्री सुतेऽप्यस्पृहः । योऽष्टाशीत्यधिके सहस्रगणिते संवत्सरे वैक्रमे त्वत्प्रासादमचीकरच्छशिरुचिं श्रीअम्बिकादेशतः ॥ ६ ॥ स्वामिन् ! दृशोरमृतवृष्टिसमां त्वदीयां मूर्ति कषोपलमयी प्रविलोक्य नेमे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy