________________
१४
याचे स्वामिन्न धननिकरं नैव भूमीपतित्वं ___ नो चक्रित्वं न सुरपतितां नो महानन्दलक्ष्मीम् । आसंसारं तव पदकमलासेवनं किन्तु नित्यं दद्यास्त्वं मे त्रिभुवनविभो! त्वामिति प्रार्थयेऽहम् ॥ ३१ ॥
(मन्दाक्रान्ता) एवं श्रीकुङ्कुणाख्यप्रवरतरमहादेशमध्यप्रतिष्ठ
श्रीमत्सोपारकाह्वाऽद्भुतनगररमाकण्ठहारोपमं त्वाम् । सद्भक्त्या ये स्तुवन्ति प्रथमजिनपते ! ते रयात् प्राप्नुवन्ति प्रौढं षट्खण्डराज्यं सुरपतिविभवं मोक्षलक्ष्मी क्रमेण ॥३२॥
(स्रग्धरा) ॥ इति श्रीसोपारकस्तवनम् ॥
अर्बुदमण्डनऋषभनेमिजिनस्तवनम् । श्रीमच्चम्पकमुख्यपुष्पनिकरैरावासिताऽऽशामुखे
माकन्दादिवनोद्भवैः फलभरैरानन्द्यमानावनौ । भाखत्कुण्डसरोनदीगतजले श्रीअर्बुदे भूधरे
श्रीनाभेयजिनं ततो जिनपति श्रीनेमिनं च स्तुवे ॥१॥ १ मन्दाक्रान्ता मभनततगा गो यतिवेदषभिः
म म न त त गुगु
-- ------ --- वर्ण १७ । २ विज्ञेया स्नग्धराऽसौ मरभनययया वाहसप्तर्षिभिन्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org