________________
श्रीकुन्थुजिनस्तवनम् ॥१७॥
देहत्विषा निर्जितसत्सुवर्ण ! वेणुकणैः किन्नरगीतवर्ष । द्रवाश्रयं त्वां प्रणमाम्यवर्ण मुस्तैकभूदार मुदारवर्ष! ॥१॥ निःशेषपापानिलभुक्सुपर्ण! पुनीहि हग्नुन्नपयोजपर्ण। रङ्केतरानो दुरितालिकर्ण दल्मि प्रजप्रीणितविश्वकर्ण! ॥२॥ रक्षकदक्षं भुवनासवर्णमुन्मार्गघूकद्युतिमत्सवर्ण!। खरेतरं कुन्थुविभो! सुवर्णमहं स्तुवे प्रीतसमस्तवर्ण! ॥ ३ ॥ नुताङ्गिरारमनोभवर्ष स्मयः कषायाशुगनेत्रकर्ण । राजेव विश्वान्यव देव! तूर्णमिताधतापाद् गुणरत्नपूर्ण ॥ ४ ॥
इति मुदितमनस्कोमूर्धगाचार्यनामा
ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥५॥
इति कुन्थुजिनस्तवनम् ।
श्रीअरजिनस्तवनम् ॥ १९॥
स्तुवे विभो! त्वां जगदेकभानो! तथ्याध्वपाथोनिधिसीतभानो!। श्रियां पदं रुक्शयनैकभानो! तनुत्विषा नुन्नहिरण्यभानो! ॥ १ ॥ तनोति यस्ते जिन! शस्तमानोपास्ति स्थिरत्वैकसुमेरुसानो!। विभो! त्वदीये हृदि दत्तदानोऽरुचस्त्वमब्जेऽलिरिवाप्तधेनो ॥२॥ दद्याः सुरीभिः कृतकीर्तिगानो जनस्य देवीमहिषीसुसूनो!। गर्वोज्झितः सर्वगुणैरनूनोच्चस्थानमागाढनिगूढजानो ! ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org