SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ द्रव्यप्रकाशं सुखकामधेनो! सूषे स्म यः कर्मसमित्कृशानो।। रीतिं स दिश्याजगदय॑मानो शङ्कां स्म यानो वसुदेवसूनो! ॥४॥ इति मुदितमनस्को मूर्धगाचार्यनामा__ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५॥ इति अरजिनस्तवनम् । श्रीमल्लिजिनस्तवनम् ॥ १९॥ श्रीकुम्भभूपालकुलावतंसं धन्याशयं विश्वकृतप्रशंसम् । महामुनिस्वान्तसरोजहंसं सानन्दमीडे जिनमिद्धशंसम् ॥ १ ॥ गच्छेजिन! त्वामलिनीलभासं रसेन यो हृत्कजधर्मभासम् । वाग्भिर्जगुस्तं मरुतां पुमांसं चलेक्षणाः शस्तयशोनिवासम् ॥ २ ॥ कर्मापहं खे हृदि राजहंसं चकार यस्त्वां भुवनैकहंसम्। क्रमस्थितं धर्मरमारिरंसं शिवावली तं समुपैत्यहिंसम् ॥ ३ ॥ रोचिष्णवस्तावकपन्निनंसं लाभाः स्ववागविष्णुहताधकंसम् । कार्यज्ञमायान्ति तमाप्तशंसं रामं जगौ त्वां नतमर्त्यहंसम् ॥ ४॥ इति मुदितमनस्को मूर्धगाचार्यनामा ऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । .. कमलविजयसङ्ख्यावद्विनेयाणुरेणौ स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५॥ इति मल्लिजिनस्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy