________________
महाशयं चित्कुसुदप्रदोष! तीर्थेश! यस्त्वां मसुजो जुजोष । राजाननं तं कलकण्ठघोष-जम्भारिपल्ली तरसा जुघोष ॥ ४ ॥
इति मुदितमनस्को मूर्धगाचार्यनामा
ऽक्षरकमलनिबन्धैबन्धुरैः संस्तुतो यः। कमलविजयसङ्ख्यावद्विनेयाणुरेणौ . स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥
इति धर्मजिनस्तवनम्।
श्रीशान्तिजिनस्तवनम् ॥१६॥
विधेहि शान्ते ! श्रितरम्यरङ्गनरैर्नताङ्ग्रे ! कृतपापभङ्ग!। महान्ति शर्माणि रुजान्तरङ्गततौ भवाब्धौ ततनौ सदङ्ग!॥१॥ धत्से विभो! त्वं महतामनङ्गमतङ्गजेभारिरपास्तसङ्ग!। गोरेतरस्वान्तकजेषु चङ्गषडशितां कोपकुमुत्पतङ्ग ! ॥२॥ सानन्दमूर्ते! त्वयि सत्कुरङ्ग ध्वजे विभो! यस्य मनो ररङ्ग । वसन्तसूतैकमरुद्भुजङ्ग! तं मोक्षलक्ष्मीवृणुतेऽरमङ्ग ॥ ३ ॥ समस्तसौभाग्यरमानिषङ्ग! चक्रित्वशक्त्या कृतवैरिभङ्ग!। लब्धोऽसि येन श्रितपुण्यलिङ्गं नन्दाङ्गना तं न किमालिलिङ्गी ॥४॥
इति मुदितमनस्को मूर्धगाचार्यनामा- अक्षरकमलनिबन्धैर्वन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणी स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५॥
इति शान्तिजिनस्तवनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org