________________
२७४
दस्यूनशेषानभयप्रदानरतिः स किं नैव जमो जघान ? | गुर्वी त्वदाज्ञां करुणानिदानरुचिं सदा यः प्रणयान्ममान ॥ ४ ॥ इति मुदितमनस्को मूर्धगाचार्यनामाऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः ।
कमलविजयसङ्ख्यावद्विनेयाणु रे णौ
स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५ ॥ इति श्री सुविधिजिन स्तवनम् ।
श्रीशीतल जिनस्तवनम् ॥ १० ॥
सोऽपास्त मोहमदाप्रमादमदोऽत्र नान्देये ! शेमाससाद | सुन्दर्यसक्तस्य तवाऽस्तसाददरस्य यो नाथ ! नुतिं जगाद ॥ १ ॥ रदत्विषा तर्जितचारुकुन्दमुदीक्ष्य यस्त्वां मनुजो मुमोद । निलोठितारिः सकलां मुकुन्दरामामवाप्याऽपि स नो ममाद ॥ २ ॥ जाग्रन्मतिः सोऽत्र रमाविनोदयत्नो न किं वैरिगणं नुमोद ? | नत्यमर्हन्तमुरुप्रमोदमानं मुदा त्वां जिन ! यो विवेद ॥ ३ ॥ मिथ्यामतानि प्रगलन्मरन्दसुमार्चिताङ्गः स न किं तुतोद ? । मुमुक्षुराट् ते स्थितिमंङ्गिवृन्ददाहाम्बु यः सत्यतामुवाद ॥ ४ ॥ इति मुदितमनको मूर्धगाचार्यनामाऽक्षरकमलनिबन्धैर्बन्धुरैः संस्तुतो यः । कमलबिजय सङ्ख्यावद्विनेयाणुरेणौ
स भवतु मयि देवो दत्तदृष्टिः सतुष्टिः ॥ ५॥ इति श्री शीतलजिन स्तवनम् ।
१ मन्दाया अपत्यं नान्देयस्तस्य सम्बोधनम् । २ सुखम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org