________________
२५७
नाथ ! त्वदीयमुखमण्डलमीक्षमाणो यं जो लवणिमापरपारमेति । पोतप्रयत्नचलितोऽपि कदापि किंवा जङ्गम्यते चरमसागरपुष्करान्तम् ? ॥ २ ॥ कान्तं तवेश ! नयनद्वितयं विलोक्य कारुण्यपुण्यपयसा भरितं सरोवत् । मल्लोचने हरिणवञ्चपले चिराय
सन्तोषपोषमयितां भवदाहृतप्तैः ॥ ३ ॥ कल्पद्रुमो मम गृहाङ्गणमागतोऽय
चिन्तामणिः करतले चटितोऽद्य सद्यः । अद्याश्रिता मम पदो सुरधेनुरेव
यद्वेदितोऽसि करटकपार्श्वदेव ! ॥ ४ ॥ सिद्धानि मेऽद्य सकलानि मनोगतानि
पापानि पार्श्वजिन ! मे विलयं गतानि । याचे न किञ्चिदपरं भवतो गभीरं
ध्यानं तवास्ति यदि में हृदि मेरुधीरम् ॥ ५ ॥ इति श्रीकर हेटकपार्श्वजिनस्तवनम् ।
श्रीदलपतिराय विरचितं प्रश्नाष्टकम् ।
अनाद्येयं मुक्तिर्ध्रुवमुपगतास्तां पुनरितस्तथाऽप्येषा रिक्ता नहि खलु कदाचित् समभवत् ।
स्तो. स. १७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org