________________
१५८
तदेवं दुस्तर्क्यव्यतिकरनिराशाक्षमधिया-"
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ १ ॥ वहत्यध्वा मुक्तेरविरतमयं भव्यनिकरा
ननन्तोऽसौ कालस्तदपि न च ते यान्ति विरतिम् । तदेवं दुस्तर्क्य व्यतिकर निरासाक्षमधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ २ ॥ अवश्यं सेत्स्यन्ति स्फुटमिह हि भव्यास्तदपि भो अमी सिद्धेभ्यः स्युः खलु यदि कदाऽनन्तगुणिताः । तदेवं दुस्तव्यतिकरनिरासाक्षमधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासन विधिम् ॥ ३ ॥ अभाज्ये क्षेत्राणौ स्थितिमुपगतः पुद्गलगणः पृथगूरूपेणाssस्ते न च भजति सङ्घातनिचयम् । तदेवं दुस्तर्क्यव्यतिकरनिरासाक्ष मधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ ४ ॥ प्रदेशः स्वस्यैकः स्पृशति खलु दिकस्थानपि परान् पृथग्देशैः स्वस्याऽप्यवयवविहीनस्तदपि सः ।
तदेवं दुस्तर्क्य व्यतिकर निरासाक्षमधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासनविधिम् ॥ ५ ॥
दिगन्तं जीवोऽयं व्रजति समयैकेन घटयन् नभोऽणून निःसङ्ख्यास्तदपि च निराशो हि समयः ।
तदेवं दुस्तर्क्यव्यतिकर निरासाक्षमधिया
मचिन्त्यस्ते वाचां वहति महिमाऽऽश्वासन विधिम् ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org