________________
२५६
मनोहरे खारतरे विहारे महोज्वला वीरजिनस्य मूर्तिः। अभ्यर्चिता यत्र हिनस्ति दौस्थ्यं वन्दे सदा तं गिरिमुजयन्तम् ॥१२॥ जीरादिपल्लीप्रभुपार्श्वनाथं चैत्ये नवीने विमलादिदेवान् । दृष्ट्वा जनो यत्र भवेत् पवित्रो वन्दे सदा तं गिरिमुजयन्तम् ॥१३॥ गजाधिरूढा मरुदेवमूर्ती राजीमतीश्रीरथनेमिमूर्ती । यत्राऽर्चकेभ्यो ददते प्रमोदं वन्दे सदा तं गिरिमुजयन्तम् ॥ १४ ॥ यत्राऽम्बिका शासनदेवता तु कपर्दियक्षेण समं समन्तात् । सङ्घस्य रक्षां कुरुते नितान्तं वन्दे सदा तं गिरिमुजयन्तम् ॥१५॥ गजेन्द्रकुण्डेन्दुगुहा प्रधानावलोकना शाम्बमुखानि यत्र । स्थानानि पश्यन्ति जनाः सहर्ष वन्दे सदा तं गिरिमुजयन्तम् ॥१६॥ चक्रे नवो नेमिजिनस्तवोऽयं यात्रागतैर्यत्र विशालतीर्थे । श्रीकीर्तिरत्नाभिधसूरिराजैर्वन्दे सदा तं गिरिमुजयन्तम् ॥ १७ ॥
इत्थं गरिष्ठगिरिनारगिरीन्द्रतीर्थ .
. स्मृत्वा हृदि स्फुटमदः स्तवनं पठेद् यः । यात्राफलं स लभते गृहसंस्थितोऽपि, प्राप्नोति सिद्धिमचिरादपि सौख्यसाराम् ॥ १८ ॥
इति श्रीगिरिनारपरिपाटीस्तवनम् । श्रीकरहेटकपार्श्वजिनस्तवनम् ।
आनन्दमन्दकुमुदाकरपूर्णचन्द्र
विश्वत्रयीनयनशीतलभावचन्द्रम् । उद्दण्डचण्डमहिमा रमया सनाथं
नित्यं नमामि करहेटकपार्श्वनाथम् ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org