SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५५ अथ गिरिनारचैत्यपरिपाटीस्तवनम्। आनन्दकन्दं प्रणिपत्य भक्त्या श्रीनेमिनाथस्य पदारविन्दम् । तीर्थेषु विख्यातमहाप्रभावं स्तवीम्यहं श्रीगिरिनारतीर्थम् ॥ १॥ यस्मिन् सहस्राम्रवणे नराणां साधु सहस्त्रेण व्रतं प्रपद्य । तपांसि भूयांसि चकार नेमिर्वन्दे सदा तं गिरिमुजयन्तम् ॥२॥ कर्माणि चत्वारि निहत्य यत्र श्रीयादवाधीश्वरनेमिनाथः । ज्ञानं प्रपेदे किल केवलाख्यं वन्दे सदा तं गिरिमुजयन्तम् ॥ ३॥ त्यक्त्वा पवित्रामपि भोजपुत्रीं यत्रोपयेमे वरसिद्धिकन्याम् ।। शिवातनूजः शिवतातिरत्र वन्दे सदा तं गिरिमुजयन्तम् ॥ ४ ॥ जीर्णाख्यकोट्टे यदुपत्यकायां वामेयवीरादिजिनान् भजन्तः । लुनन्ति लोका निजपापजालं वन्दे सदा तं गिरिमुज्जयन्तम् ॥५॥ आरुह्य यं नेमिजिनं नमन्तो भव्या भवाम्भोनिधियानपात्रम् । भवन्ति पापेन विमुक्तकाया वन्दे सदा तं गिरिमुजयन्तम् ॥ ६॥ प्रासादगर्भे शिवताति यत्र निरीक्ष्य नेमीश्वरदेवबिम्बम् । कृतार्थमात्मानममंस्त लोको वन्दे सदा तं गिरिमुजयन्तम् ॥ ७ ॥ यस्मिन्नपापाख्यमठे प्रभूताश्चिरन्तनीश्च प्रतिमाः प्रणम्य । छिन्दन्ति पापानि निजानि लोका वन्दे सदा तं गिरिमुजयन्तम् ॥८॥ श्रीमूलदेवालयदेवकुल्यो जिनेन्द्रबिम्बैः परितः परीताः। यत्रार्चकेभ्यो ददते प्रसादं वन्दे सदा तं गिरिमुजयन्तम् ॥ ९ ॥ सम्मेतकाऽष्टापदतीर्थयुक्तं दृष्ट्वा विहारं वृषभेश्वरस्य । स्युहर्षभाजो भविकाश्च यत्र वन्दे सदा तं गिरिमुज्जयन्तम्॥१०॥ कल्याणकाख्ये भवने विशाले यस्मिन्नवस्थात्रयरूपधारी । शिवातनूजो वितनोति भद्रं वन्दे सदा तं गिरिमुज्जयन्तम् ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy