________________
२५४
तथाऽप्यस्मञ्चेतस्त्वयि भजति रागाद्वशगतां
न जाने तद् ब्रह्मन् ! कतममभिचारं प्रथयसि ॥ १४ ॥ भवश्वभ्रापातः स्फुरति बत रागप्रभव इ.
त्युपास्ते त्वां लोको बत नियतरागं च विमृशन् । अये चित्रं चित्रं चरितमविचिन्त्यं वरद! ते -
श्रुतोऽप्यन्तर्नृणामतुलमनुरागं जनयसि ॥ १५ ॥ निशम्य स्वं दासं क्वचिदपि विपद्विग्निततर्नु
त्वरन्ते वां ब्रीडां हृदि निधतो. हन्त विभवः । अये मामाक्रान्तं दृढदुरितलुण्ठाकनिकरै- .
मुहुः पश्यन् पश्यन् बत बत न लज्जां कलयसि ॥१६॥ पयोधेर्गाम्भीर्यं विषमतिमिनरुपहतं ___ हतः काठिन्येन ध्रुवमचलराजस्य महिमा । विनिर्मुक्ते दोषैरगणितगुणौघं श्रितवति
त्वयि ब्रह्मन् ! धत्ते सततसुषमां तद् द्वयमपि ॥ १७ ॥ पशुधेनुः शैलो मणिरवनिजन्मा तरुरथ
स्फुटं याच्या दैन्ये ददति मितमर्थ कथमपि । तव ब्रह्मन् ! स्वैरं श्रियमपरिमेयां वितरतो
न जाने त्रैलोक्ये कतरदुपमानं विलसति ॥ १८ ॥ इत्थं भक्तिचरातुरेण मनसा वाचामगम्योऽपि यन्
नूनं नाथ! नुतोऽसि नव्यचरितैरत्युप्रकाव्यैर्मया । तुष्टो यद्यपि साम्प्रतं भवभयक्लेशाकुलं हन्त मा
मङ्गीकुर्वनुकम्पया जिनपते ! नो चेदनङ्गीकुरु ॥ १९ ॥ त्वमनङ्गोऽसि भगवन्नङ्ग मय्यनुकम्पताम् । यथाऽयं नाङ्गसंसर्गः कर्हिचित् परिभूयते ॥ २० ॥ श्रमणोपासकश्रीदलपतिरायविरचितं सिद्धविंशिकास्तोत्रं समाप्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |