________________
.२५३
उदासीनो नाथ ! त्वमिह भजतामप्यभजतां
सुखं वा दुःखं वा न खलु समदृश्वा स्पृहयसि । परं त्वन्नामैवाऽवति जनममुं विनभरतो___ ऽभिधैव श्लाघ्या तत् त्वयि किमिति मोघं बत यशः॥९॥ त्रिलोकी त्वामेवावसति जगदीशेति महिमा
तव श्लाघ्यो लोकेऽखिलजनचमत्कारजननः । मम त्वामप्यन्तर्हृदि निवहतः किञ्च न यशो
विना पुण्यैः कीर्ति जगति किल कश्चिन्न लभते ॥१०॥ समाच्छन्ना या श्रीः कृतकलुषकर्मोग्रपटलैः
प्रदेया सैवाऽऽशु वयमिह समुद्धाट्य सहसा । अये कीर्ति सौधाकरकिरणकान्त्या सहचरी
मदीयां तां मह्यं श्रियमवितरन् किं न भजसे ? ॥ ११ ॥ प्रकुर्वन्तः पापान्यपि भयमुपैमो नहि मनाक्
तवैवार्थेऽस्माभिर्व्यरचि दुरितानां व्यतिकरः । विना मादृक्षैस्ते विषमभवपाथोधिपतितैः
कथंकारं लभ्या वरद! पतितोद्धारपदवी ॥ १२ ॥ त्वमुद्धर्तुं दीनान् दुरितभरभुनानपि विभो ! __ भवाब्धौ निक्षेप्तुं मम दुरितमत्याग्रहपरम् । दिदृक्षामो ब्रह्मन्निह विततवादव्यतिकरे
प्रतिज्ञायां कस्योल्लसति दृढभूमिः खलु हठः ॥ १३ ॥ समक्षस्त्वं नाऽक्ष्णोन च वरद ! चित्तानुकृतिभाग
न वा लक्ष्यः स्वप्ने कथमपि न सेव्योऽसि वपुषा । १.ष्ट्वा-शा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org