________________
२५२
विभो! त्वत्सेवायामिह यदपि सौकर्यमखिलं — तथाप्यस्मच्चेतो हतमितरसेवां स्पृहयति ॥ ३ ॥ श्रुते न व्यासङ्गो नच सततसङ्गोऽपि विदुषा___ मभङ्गो नोत्साहस्तपसि नच दानं न विरतिः । गुणैरस्पृष्टं नो बत जनममुं तारयसि चे
जडानामुद्धारे बत वरद ! काऽऽहोपुरुषिका ॥ ४ ॥ भजन्तेऽमी मामप्यहह विषयारूढमनस
स्तदुद्धारे मा भूः श्लथितविनियोगो जडधियाम् । त्यजामो व्यासङ्गं विषमविषयाणां यदि तदा
स्वयं तूर्ण तीर्णास्त्वयि किमिति दैन्येन भगवन् ? ॥ ५ ॥ त्वमुद्धर्ता नृणामपि भवपयोधौ निपततां
विदित्वेत्यागां ते दुरितभरभुनोऽपि शरणम् । कुरूद्धारं नो चेत् सममिह मदीयैश्च दुरितैः
पराभूतिं गन्ता बत बत विवादव्यतिकरे ॥६॥ ममाङ्गीचक्रे त्वं परमपदलाभाहितधिया __ त्वमीशौदासिन्यं भजसि यदि वाच्यं किमु पुनः ? । विदूरेऽभीष्टार्थप्रवितरणकीर्तिः किमुत मे
कृताङ्गीकारस्त्वं परमनृणभावं न भजसि ॥ ७ ॥ त्वमीश! स्मर्तृणां बहुलभवभावं निरसय__ नता मादृक्षैः श्रियमनुपमेयां वितनुषे । जनरत्वामाख्याति श्रुतविदिह नीराग इति यत्
तदाश्चर्यं यद्वाऽद्भुतचरितलक्ष्या हि विभवः ॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org