________________
२३९
प्रैवेयके त्वं नवमे सुरोऽभव- (२)
स्ततश्च पद्मप्रभतीर्थनायकः (३) ॥६॥ त्वं धातकीषण्डगते विदेहे ___ श्रीक्षेमपुर्यां नृपनन्दिषेणः (१)। अवेयकेऽभूस्त्रिदशश्च षष्ठे (२)
पाया अपायाजिन! मां सुपार्श्व! (३) ॥ ७ ॥ यस्त्वं पूर्वभवे विदेहविजये सद्धातकीषण्डजे ... पद्मो नाम धराधवो (१) ऽथ विबुधः श्रीवैजयन्ते (२) ततः । च्युत्वा श्रीमहसेनवंशकुमुदप्रोज्जृम्भने चन्द्रमाः
श्रीचन्द्रप्रभ! (३) देहि मे निजपदोपास्ति समस्तां सदा ॥ ८॥ पूर्व पद्मनृपो हि पुष्करवरद्वीपार्धगे पुष्कला
वत्याह्ने विजयेऽभवः (१) सुरवरः श्रीआनते ताविषे (२)। श्रीसुग्रीवनरेशवंशविशद श्रीमौक्तिकाभ! प्रभो! स्वामिस्त्वं सुविधे! (३) विधेहि सुविधौ लीनं मदीयं मनः॥९॥ यः पुष्करद्वीपविदेहभूषणे .
वत्सामिधेऽभूर्विजये धराधवः ।
पिहिताश्रमसूरिपार्श्वे दीक्षा लात्वा (१) प्रैवेयके सुरः (२) ततः श्रीपद्मप्रभजिनः (३)॥ ६ ॥ धातकीषण्डे पूर्व विदेहे रमणीयाख्ये विजये क्षेमपुर्यां नन्दिषेणनृपोऽरिदमनाचार्यान्ते व्रती (१) षष्ठे प्रैवेयके सुरः (२) श्रीसुपार्श्वः (३)॥७॥ धातकीषण्डे प्राग्विदेहे मङ्गलावती विजये पुण्डरीकिण्यां नगर्या पद्मनामा राजा युगन्धराचार्यान्ते व्रती भूत्वा (१) वैजयन्ते देवः (२) ततः श्रीचन्द्रप्रभजिनः (३) ॥ ८॥ श्रीपुष्करद्वीपे पूर्व विदेहे पुष्कलावती विजये पुण्डरीकिण्यां नगर्या पद्मनामा राजा राज्यं त्यक्त्वा जगन्नन्दनगुर्वन्तिके व्रती भूत्वा (१) आनते सुरः (२) ततः श्रीसुविधिजिनः (३)॥ ९॥ पुष्करवरद्वीपे पूर्व विदेहे वत्साभिधे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org