________________
२४०
पद्मोत्तरो नाम (१) सुरोऽच्युते (२) ततो
. भवे तृतीये जय शीतलः (३) प्रभो! ॥ १० ॥ आदी पूर्वभवे हि पुष्करवरद्वीपे विदेहोद्भवे
श्रीकच्छे विजये विभो! नलिनगुल्माह्वोऽजनिष्ठा नृपः (१)। श्रीपुष्पोत्तरसद्विमानकवरे यो निर्जरो भासुरः (२) श्रीश्रेयांस ! (३) भवे भवे मम भवत्सेवां प्रदेयाः प्रभो ॥११॥
यः पुष्करद्वीपगते विदेहे - पद्मोत्तरः प्राक् नृपतिः प्रभोऽभूः (१)। लात्वा व्रतं सप्तमकल्पनाकी (२) . श्रीवासुपूज्यश्च (३) भवे तृतीये ॥ १२ ॥ यो धातकीषण्डगते विदेहे । पूर्व प्रजासेननृपोऽजनिष्ठाः (१) । स्वामिन् ! सहस्रारगतः सुपर्वा (२)
विभो! भवे त्वं विमलस्तृतीये (३) ॥ १३ ॥ यः प्राग्भवे पद्मरथो महीपति
स्त्वं धातकीषण्डविदेहमण्डले (१)। विजये सुसीमानगर्या पद्मोत्तरो राजा अस्ताघगुरुसमीपे व्रतमादाय (१) अच्युते सुरः (२) ततः श्रीशीतलजिनः (३) ॥ १०॥ पुष्करद्वीपे प्राच्यविदेहे कच्छाख्ये विजये क्षेमपुर्या नलिनगुल्मो नृपो वज्रदत्तर्षिपार्श्व व्रतं लात्वा (१) प्राणतगे पुष्योत्तरविमाने सुरः (२) ततः श्रीश्रेयांसः ( ३ ) ॥ ११॥ पुष्करार्धप्राच्यविदेहे पुष्कलावतीविजये रत्नसञ्चयानगर्यां पद्मोत्तरो राजा वज्रनाभर्षिपार्श्वे व्रतं लात्वा (१) महाशुक्रे सुरः (२) ततः श्रीवासुपूज्यः (३) ॥ १२ ॥ पूर्व धातकीषण्डे विदेहे भरताह्वे विजये महापुरीनाभ्यां नगर्यो प्रजासेनो नृपः सर्वगुप्तगुरोः पार्श्वे व्रतं लात्वा (१) सहस्रारकल्पे देवः (२) ततो विमलजिनः (३) ॥ १३ ॥ धातकीषण्डे प्राच्यविदेहे ऐरावताख्ये विजये पद्मरथनामा राजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org