SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३८ गुसदनो विजयाह्वविमानगो (२) जय यतीश! तृतीयभवेऽजितः (३) ॥ २॥ आये भवे विपुलवाहन एव धातकी पण्डान्तरैरवतवर्षवरे नरेश्वरः (१)। प्रैवेयके सुरवरस्त्वमभूश्च सप्तमे (२) श्रीशम्भवस्त्वमभवः प्रभुरीप्सितप्रदः (३) ॥ ३ ॥ जम्बूद्वीपमहाविदेहविजये प्रौढप्रतापान्वितो ___ यस्त्वं पूर्वभवे महाबलमहीजानि(१)र्जिनेन्द्राऽभवः । तप्त्वा तीव्रतपो विराजिविजयाह्वाने विमाने घुसत् (२) __ सश्रीमानभिनन्दनो(३)ऽस्तमदनो जीयास्तृतीये भवे॥४॥ पूर्वे भवे पुरुषसिंहनृपोऽत्र जम्बू. द्वीपे विदेहविजयावनिमण्डले त्वम् (१)। लात्वा व्रतं विनयनन्दनसद्गुरोर्यः __ श्रीवैजयन्तसुमनाः (२) सुमतिर्जिनोऽभूः (३) ॥ ५ ॥ प्राग् धातकीषण्डविदेहमण्डने वत्साऽभिधाने विजयेऽपराजितः (१)। सुरः (३३ सागरायुः (२) श्रीअजितः (३) ॥ २॥ धातकीषण्डैरवते क्षेमापुर्या विपुलवाहनराजा स्वयंप्रभुगुर्वन्तिके व्रतं लात्वा (१) सप्तमप्रैवेयके सुरः (२) श्रीशम्भवः (३) ॥ ३ ॥ अत्रैव विदेहे मङ्गलावतीविजये रत्नसञ्चयानगर्या महाबलनृपो विमलसूरिपार्श्वे दीक्षां लात्वा (१) विजयविमाने सुरः (२) ततः श्रीअभिनन्दनः (३) ॥ ४॥ जम्बूद्वीपे पुष्कलावती विजये शङ्खपुरे पुरे विजयसेननामा राजा तज्जाया सुदर्शना तयोः सुतः पुरुषसिंहराजा विनयनन्दनगुर्वन्तिके व्रतं लात्वा (१) वैजयन्ते सुरः (२) ततः श्रीसुमतिजिनः (३)॥५॥ धातकीषण्डे पूर्व विदेहे वत्साऽभिधे विजये सुसीमानगर्यां अपराजिताख्यो राजा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy