SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ धरणोरगेन्द्रसुरपतिविद्याधरदैत्यदेवताभिनतम् । जिनगरुडमप्रमेयं चतुर्वर्णविभूषितं स्मरेत् ।। ३०॥ आजानु कनकगौरं आनाभेः शङ्खकुन्दहरधवलम् । आकण्ठतो नवदिवाकरकान्तितुल्यमामूर्धतोऽर्जुननिभं ॥३१॥ गरुडस्यरूपम् (१) ॐस्वर्णपक्षं [ गरुत्मन्तं] वैनतेयं महाबलम् । । नागान्तकं जितारिं च अजितं विश्वरूपिणम् ॥ ३२ ॥ विनतायाः सुतं दैत्यं विहगं पन्नगोत्तमम् । गुरुत्तमं खगेशं च तायं काश्यपनन्दनम् ॥ ३३ ॥ द्वादशैतानि नामानि गरुडस्य महात्मनः । यः स्मरेत् प्रातरुत्थाय स्नातो वा यदि वाऽशुचिः ॥३४॥ विषं नाक्रमते तस्य न च हिंसन्ति पन्नगाः । न दुष्टा द्रावयन्त्येव सर्वकार्याणि साधयेत् ॥ ३५ ॥ एवंभूतैः स्मरेद् यस्तु श्रीपार्श्व नामभिर्जिनम् । तस्य रोगाः प्रणश्यन्ति विषं च प्रलयं ब्रजेत् ॥ ३६॥ ग्रहदुस्थसुस्थजननं सर्वविषोच्छेदनं प्रशान्तिकरम् । प्रध्वस्तदुरितनिचयं पार्श्व योगीश्वरं वन्दे ॥ ३७॥ इति मालामत्रपदैरभिष्टुतं यः स्मरेत् त्रिसन्ध्यमपि । स करोति नागक्रीडां शिव इव विषवेदनातीतः ॥ ३८ ॥ भक्तिर्जिनेश्वरे यस्य गन्धमाल्यानुलेपनैः। संपूजयति यश्चैनं तस्यैतत् सफलं भवेत् ॥ ३९ ॥ इति श्रीपार्श्वनाथधरणोरगेन्द्रस्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy