SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३५ कमलदलस्थितदिक्पतिमध्ये भुजगावृतं जिनं नत्वा । षोडशदेव्योपगतं बीजाक्षरसंयुतं तद्धि ॥ १९॥ वन्ध्यानां सुतजननं म्रियमाणे यत्परक्षणं परमम् । पद्ममिदं रोगहरं ग्रहशाकिनिभूतनिर्माशम् ॥ २० ॥ दष्टकसर्वाङ्गगतं पद्ममिदं ध्यायतोऽमृतप्लवहम् । कुर्याद्विषापहारं प्रणवाद्यैः पञ्चभिर्वर्णैः ॥ २१ ॥ व्यस्तसमस्तं विपतिं बहुधा परिकल्प्य पञ्चभिर्वर्णैः । जिननामाक्षरसहितैः पदं पदं सर्वविषमथनम् ॥ २२ ॥ क्षिप ॐ स्वाहा पञ्चकमनिन्दितं पञ्चभूतकृतकल्पम् । नागाष्टकुलोपेतं सत्वरजस्तमःकलानुगतम् ॥ २३ ॥ रेफसम्पुटमध्यस्थं हकारं वह्निमण्डले । आक्रान्तिदीप्तिवर्णाभं स्तम्भयेत् त्रिदशानपि ॥ २४ ॥ नीलोत्पलदलश्यामं ककारं योपरि स्थितम् । वकारावेष्टितं शुद्धं पर्वतानपि चालयेत् ॥ २५ ॥ लसद्वनद्वयाक्रान्तमिन्द्रगोपरमध्यगम् ।। पद्मकिञ्जल्कसङ्काशं स्तम्भयेत् त्रिपुरान्तकम् ॥ २६ ॥ कुन्देन्दुशङ्खवर्णाभं निर्वाहं यस्तु चिन्तयेत् । निर्विषं कुरुते क्षिप्रं विषं स्थावरजङ्गमम् ॥ २७ ॥ हरहारशङ्खधवलं ठकारं कलसाकृतिम् ।। हकारावेष्टितं शुद्धं प्लवन्तं विषनाशनम् ॥ २८ ॥ हस्ताङ्गुलीषु विन्यस्तं वामकरे भूतपञ्चकं सकलम् । अपहरति समस्तविषं साधुकमुष्टिक्रमाबन्धात् ॥ २९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002626
Book TitleStotrasamucchaya
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherPandurang Javji
Publication Year1928
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Worship
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy