________________
२३४
ॐ हरहरहर हुतभुक् पवनेरितज्वलनमङ्कुशं ध्यायेत् । उत्थापयति सरोषं पुनरुक्तैर्भोगहस्तोऽयम् ॥ ११ ॥ श्रीपार्श्वनाथ! सुरपतिमुकुटतटोघृष्टपादनलिनयुग!। नागाष्टकुलविषापह हा हा हेहै हो हौ हुं हः ॥ १२ ॥ सकलभुवनाभिवन्दित! गरुडस्त्वं पन्नगेन्द्रकृतपूजः । विषमविषानलशमनो जलद इव जलप्लुतालोकः ॥ १३ ॥ दैत्योपसर्गभीषणजलधरधारानिपातधौतमल!। सर्वज्ञ! नागवन्दित ! सर्व विषाक्षेपण! नमस्ते ॥ १४ ॥ ॐ हन हन दह दह पच पच मथ मथ
संहर संहर क्षिप हुं च चाल कलिकुण्ड!। धम धम पूरय पूरय
विषोल्बणं हुं फुट् स्वाहा ॥ १५ ॥ ॐ चुरु चुरु कुरु कुरु मुरु मुरु
फुरु फुरु फार फार फलदस्त्वम् । किलि किलि कलकल कलितैः
कलिकुण्ड कला कलापज्ञ! ॥ १६ ॥ ॐ यः यः सः सः हः हः वः वः
उरुरिल्लयरुहरुहान्तशान्तस्त्वम् । विषवतेर्विध्यपनं
कुरु शीघ्रमुरुप्लवाख्यानात् ॥ १७ ॥ दंष्ट्राकरालभीषणकुपितासुरजलदजलधरापातैः । अभ्यस्ततपोनलजाज्ज्वलन्त दह दुष्टनागविषम् ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org