________________
२३३
श्री पार्श्वधरणोरगेन्द्रस्तवनम् ।
धरणोरगेन्द्रसुरपति विद्याधरपूजितं जिनं नत्वा । क्षुद्रोपद्रवशमनं तस्यैव महास्तवं वक्ष्ये ॥ १ ॥ सुरलोकनाथपूजित ! हर हर हर हाररोषदुष्टमपि । पन्नगविषं महाबल ! शुक्रुध्यानानलाक्षेपात् ॥ २ ॥ विद्यासहस्रषोडशगणनायकवीर ! वर्धितानन्द ! | पन्नगकुलं कुलोत्तम ! निर्विषतां नय नयाभिगमात् ॥ ३ ॥ सर्वेऽपि महानागा नागाधिपकृतफणातपच्छादः । कलिकुण्डदण्डनिहता नश्यन्ति विषापहारेण ॥ ४ ॥ ॐकारसम्पुटगतं वामकरे दण्डरूपकं ध्यातम् | ज्वालापरिस्फुरन्तं कलिकुण्डाज्ञामिवाऽमोघम् ॥ ५ ॥ नाशयति सर्वनागान् भूतान् व्यालग्रहांश्च विस्फोटान् । ज्वालागर्दभशा किनिविषवेगांश्चापि रोगांश्च ॥ ६ ॥
मारणं स्तम्भनं चैव शत्रोरुचाटनं तथा ।
मोहनं द्वेषणं चापि क्रियाभेदात् करोति तत् ॥ ७ ॥ दैत्यामरेन्द्रपूजित ! निर्नाशितदुष्टकर्ममलपटल ! | क्षिपय जिन ! हुं फुट् त्वं पन्नगकुलविषमविषदर्पम् ॥ ८ ॥ निर्मथितभवभयोल्बणषोडशविद्याधिपत्वमुपपन्नः ।
श्री पार्श्वनाथ ! विषहरहि लिहिलिमातङ्गिनी स्वाहा ॥ ९ ॥ आगच्छन्तु महानागाः पन्नगाश्च महाविषाः । गरुडस्येमां विद्यां हिलि हिलि मातङ्गिनी स्वाहा ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org