________________
२२७
अथ सम्भवजिनस्तवनम् ।
त्वं शम्भवः संभवतर्षरोगैः सन्तप्यमानस्य जनस्य लोके । आसीरिहाकस्मिक एव वैद्यो वैद्यो यथा नाथ! रुजां प्रशान्त्यै ॥१॥ अनित्यमत्राणमहक्रियाभिः प्रसक्तमिथ्याध्यवसायदोषः। इदं जगज्जन्मजरान्तकात निरञ्जना शान्तिमजीगमस्त्वम् ॥२॥ शतहदोन्मेषचलं हि सौख्यं तृष्णामयाप्यायनमानहेतुः । तृष्णाभिवृद्धिश्च तपस्यजस्रं तापस्तदायासयतीत्यवादीः ॥ ३ ॥ बन्धश्च मोक्षश्च तयोश्च हेतुर्बद्धश्च मुक्तश्च फलं च मुक्तेः । स्याद्वादिनो नाथ तवैव युक्तं नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥४॥
अवचूरिः। त्वं शम्भवः शं भवति अस्मात् स त्वं आसीः, इहलोके सम्भवः संसारः तत्र तर्षा तृष्णा स एव रोगा दुःखहेतुखात् तैः सन्तप्यमानस्य, तस्य कथं भूतस्य ? आकस्मिक एव तत्फलनिरपेक्ष एव । अत्र दृष्टान्तमाह-राथा वैद्यः अनाथरुजां प्रशान्त्यै ॥ १॥ अनित्यमित्यादि, इदं जगत् प्राणिसङ्घातः, कथंभूतम् ! अनित्यं विनश्वरम् , अनेन साङ्ख्यमतं प्रत्युक्तम् । पुनः अत्राणं न विद्यते त्राणमस्य । अनेनेश्वरो विष्णुर्वा तस्य त्रातेति योगमीमांसकमतं निरस्तम् । कथं तदत्राणमित्याहअहंक्रियाभिः अहङ्कतिः अहङ्कारस्तैः, अत एव जन्मजरान्तकार्तम् । पुनः प्रसक्तमिथ्याऽव्यवसायदोषम् , प्रसक्ता मिथ्याध्यवसायदोषा यत्र तम् इह त्वं निर. अनां शान्ति अजीगमः ॥ २ ॥ शतहदोन्मेषचलं., शतहदा विद्युत् तस्या उन्मेष उन्मीलनं स इव चलमस्थिर सौख्यमिन्द्रियसुखम् , कथंभूतम् ? तृष्णेत्यादि, तृष्णा संसारसुखाभिलाषः सैव आमयो व्याधिस्तस्याप्यायनं पुष्टिमात्रं तस्य हेतुः, तत्पुष्टिश्च किं करोतीत्याह-तृष्णाभिवृ० तृष्णाया अभिवृद्धिः पुष्टिः, तपति सन्तापयति अजस्रमनवरतम् , तज्जनितस्तापो जगतः किं करोतीत्याह -तापरतज्जगद् आयासयति अनेकदुःखपरम्परया क्लेशयति, सेवादि क्रियासु प्रवर्तत इत्येवं जगतः बोधनार्थ त्वमेवावादीः ॥ ३ ॥ ननु सुगतादिभिरपि तत्सम्बोधनार्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |